कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 1020, कुल 1079 में से
संदर्भ में पढ़ें१५२ कथासरित्सागर शाखामारुम्ब्य स्थितो यावत्तावत्तेनाययौ पथा। आरोहेष्वोपरिस्थेन नद्यां पीतजलः करी ॥२०४॥ स दृष्ट्वा तरुशाखाग्रलम्बी भीतः स दीनवाक्। महात्मन् मां गृहाणेति हस्त्यारोहमुवाच तम् ॥२ ५॥ हस्त्यारोहश्च भीतः समवतारयितुं तरोः। पादयोरग्रहीद्द्वाभ्यां पाणिभ्यामुज्झिताङ्कुशः ॥२०६॥ तावच्च निर्गत्य गते गजे भीतस्य तस्य सः। ललम्बे पादयोर्हस्तिपको वृक्षाग्रलम्बिनः ॥२०७॥ ततः स स्वरमभीतो हस्त्यारोहं तमभ्यधात्। यदि जानासि तच्छीघ्रं यत्किञ्चिद् गीयतां त्वया ॥२०८॥ इतोऽवसारयञ्जातु यच्छ्रुत्वागत्य नौ जनः। पतिताव यथाधस्ताद्रेखाबामिय नदी ॥२०९॥ इत्युक्तः स गजारोहस्तेन मञ्जु तथा जगौ। यथा स एव भीतोऽद्य परितोषमगात् परम् ॥२१०॥ साधुवादं च स ददद्विस्मृतोज्झितपादपः। दातुं प्रावर्तत द्वाभ्यां हस्ताभ्यां छोटिकां जडः ॥२११॥ तत्क्षणं विनिपत्यैव सहस्त्यारोह एव सः। नद्यां विपप्रे मूर्धहि सङ्गः कस्यास्ति शर्मणे ॥२१२॥ इत्याख्याय कथां भूयो वत्सेश्वरसुतां सः। गोमुखः कथयामास हिरण्याक्षकथामिमाम् ॥२१३॥ हिरण्याक्ष कथा अस्तीह हिमवत्कुक्षौ देशः पृथ्वीशिरोमणिः। कद्मीर इति विद्वानां धर्मस्य च निकेतनम् ॥२१४॥ तत्राधिष्ठानमभवद्धिरण्यपुरनामकम् । कनकप्रभ इति ख्यातस्तस्मिन् राजा बभूव च ॥२१५॥ तस्य रत्नप्रभादेव्यां शङ्कराराधनोद्भवः। पुत्रो हिरण्याक्ष इति क्ष्मापतेरुपपद्यत ॥२१६॥ स जातु गुलिकाक्रीडां कुर्वन् गुलिकया छलात्। तापसीं राजतन्तव्यां मार्गायातामताडयत् ॥२१७॥ सा तापसी जितक्रोधा राजपुत्रं विहस्य तम्। वागीश्वरी हिरण्याक्षमुवाच विवृतानना ॥२१८॥ स्वयौवनादिकरीदृग्मदधस्त्वं तां यदि। मृगाङ्कमगामाप्नोषि भार्यां तत्कीदृशो भवेत् ॥२१९॥