कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 1028, कुल 1079 में से
संदर्भ में पढ़ें१९८ कथासरित्सागर
विवाहसिद्धये पित्रे त्वयैव कथ्यतामिति। अथ मृगाङ्कलेखात्र तापस्या प्रोच्यत तया॥२४९॥ ततो लज्जानतमुखी सा गत्वा पितरं निजम्। सखीमुखेन तत्सर्वं बोधयामास तत्क्षणम्॥२५०॥ सोऽपि स्वप्नेऽम्बिकादिष्टस्तत्पिता सत्वरस्त्वरम्। तमानयीत् स्वभवनं सम्मानामृततेजसम्॥२५१॥ ददौ मृगाङ्कलेखां च तस्मै तां स यथाविधि। कृतोद्वाहश्च तं वज्रकूटे स्वं प्रययौ पुरम्॥२५२॥ तत्र सोऽमृततेजा स्वं राज्यं प्राप्य सभार्यकम्। आनीतं सिद्धतापस्या मर्त्यत्त्वात्पितरं निजम्॥२५३॥ कनकाक्षं तमभ्यर्च्य भोगैः प्रापय्य मृतसत्। मृगाङ्कलेखया साकं तामृद्धिं बुभुजे चिरम्॥२५४॥ इति पूर्वकर्मविहितं भवितव्यं जगति यस्य जन्तोर्यत्। तदयत्नेन स पुरतः पतितं प्राप्नोत्यसाध्यमपि॥२५५॥ एवं गोमुखकथितां शक्तियशस्युत्सुको निशम्य कथाम्। शयने निशि नरवाहनदत्तो निद्रामसौ भेजे॥२५६॥
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शक्तियशोलम्बके नवमस्तरङ्गः।
दशमस्तरङ्गः
ततोऽन्येद्युः पुनर्नक्तं विनोदार्थं स गोमुखः। नरवाहनदत्ताय कथामेतामवर्णयत्॥१॥ धारस्वराभिधे शैले सिद्धक्षेत्रे पुरावसत्॥ उपास्यमानो बहुभिः शिष्यैः कोऽपि महामुनिः॥२॥ सोऽब्रवीज्जातु शिष्यान् स्वान् युष्मासु यदि कश्चित्। अपूर्वमीक्षितं किञ्चिच्छ्रुतं वा तन्निवेद्यताम्॥३॥ इत्युक्तस्तेन मुनिना शिष्य एको जगाद तम्। मया श्रुतमपूर्वं यत्तदाख्यामि निशम्यताम्॥४॥