भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 1068, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 1068

१६ कथासरित्सागर अहो प्रिया सुसदृशी काप्येषा सेव किं भवेत्। कुतो बतन्न तादृंशि भागधेयानि यन्मम ॥६७॥ इति मां चिन्तयन्तं च सेवेयमिति दक्षिणम्। लोचनं वदति स्मैव साह्लादं प्रस्फुरन्मुहुः ॥६८॥ तन्वि प्रासादवासार्हा त्वमरण्येऽत्र का वद। इति पृष्टा ततः सा च मया नाह स्म किञ्चन ॥६९॥ मुनिशापभयेनाथ लतागुल्मान्तराश्रितः। स्थितवानस्मि तां पश्यन्नवितृप्तेन चक्षुषा ॥७०॥ कृतार्चना सा च मुहुः सस्नेहं परिवृत्य माम्। पश्यन्ती विमुञ्चन्ती च किञ्चिदुत् प्रायासत शनैः ॥७१॥ गतायां मुग्धभासस्यां तमोधाः पश्यतो दिशः। निष्ठाचक्रसदृशी काप्यवस्था ममाभवत् ॥७२॥ क्षणाच्चाशङ्कितायातां तेजसार्कप्रभानिभाम्। सुतां मतङ्गस्य मुनेराबाल्याद्ब्रह्मचारिणीम् ॥७३॥ यमुनाख्यां तपः क्षामशरीरां दिव्यचक्षुषम्। साक्षाद्धृतिमिवापश्यमहं कल्याजदर्शनाम् ॥७४॥ सा मामवददालम्ब्य चन्द्रसार धृतिं शृणु। द्विषत्त्रास्यो वणिग् योऽसावस्ति द्वीपान्तरे महान् ॥७५॥ स रूपवत्यां जातायां कन्यायां सुहृदा किल। जिनरक्षितसञ्ज्ञेन ज्ञानिनावादि भिक्षुणा ॥७६॥ स्वयं त्वया न देयेयं कन्यैषा ह्यप्रमातुका। दोषः स्यात्ते स्वयन्दाने विहितं तादृशं हितम् ॥७७॥ इत्युक्तो भिक्षुणा सोऽथ तां प्रदेयां सुतां वणिक्। च मातामहहस्तेन दातुमच्छत्स्ववर्धिताम् ॥७८॥ अतः सा सिंहलद्वीपं शेन मातामहान्तिकम्। पित्रा विसृष्टा बहने भग्ने न्यपतदम्बुधौ ॥७९॥ आयुर्बलेन चानीथ दवनेव महोम्मिणा। वेलातटे समुद्रेण निक्षिप्ता सा वणिक्सुता ॥८०॥ तावत्पिता मे भगवान् मतङ्गमुरिम्बुधौ। सशिष्यः स्नातुमायातो मृतकल्पां ददर्श ताम् ॥८१॥