भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 1070, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 1070

१८ कथासरित्सागर स दयालुः समाश्वास्य तां स्वमाश्रममानयत्। यमुने तव पाल्येयमिति च न्यस्तवान् मयि ॥८२॥ वलात्तटादियं प्राप्ता मयेति स महामुनिः। नाम्ना तामकरोद्वेलां बालां मुनिजनप्रियाम् ॥८३॥ तत्स्नेहेन च चित्तं मेऽप्यस्तस्नेहकृपामयम्। ब्रह्मचर्यनिरस्तोऽपि हा संसारोऽथ बाधते ॥८४॥ आपाणिग्रहणां तां च नवयौवनशोभिनीम्। ब्रूयत चन्द्रसारैतां वर्द्ध दर्शं मनो मम ॥८५॥ सा च प्राग्जन्मभार्या ते बुद्ध्वा च त्वामिहागतम्। प्रणिधानादहं पुत्र सम्प्राप्तैषा तवान्तिकम् ॥८६॥ तदागच्छापयच्छस्व वेलां तामस्मदर्पिताम्। क्लेशोऽनुभूतः साफल्यं भजतां युवयोरयम् ॥८७॥ इत्यानन्द्य गिराऽभ्रवृष्ट्येव नयति स्म सा। यमुना मां भगवती मातङ्गस्याश्रमं पितुः ॥८८॥ विज्ञप्तश्च तया तत्र तां मातङ्गमुनिः स मे। ददौ वत्सां मनोगम्यसम्पत्तिमिव रूपिणीम् ॥८९॥ ततस्तया समं तत्र वेत्याहं सुखस्थितः। एकदा वधुतोऽकार्षं जलकेलिं सरोऽम्भसि ॥९०॥ अपश्यता सच्छलनाप्यवेक्षं क्षिपता जलम्। सिक्तः स्नानप्रवृत्तोऽत्र स मातङ्गमुनिर्मया ॥९१॥ स तेन कुपितः शापं सभार्यं मामपातयत्। वियोगो भविता पापो दम्पत्योर्युवयोरिति ॥९२॥ ततस्तया दीनगिरा वध्व्या पादलग्नया। प्रार्थितः स मुनिर्ध्यात्वा शापान्तं नो समादिशत् ॥९३॥ जेता करेणुवेगेन योऽश्वरत्नयुगं बली। नरवाहनदत्तं स भाविविद्याधरेश्वरम् ॥९४॥ चन्द्रसार यदा द्रक्ष्यस्याराद्वत्सेश्वरात्मजम्। सङ्गत्स्यसे तदा शापप्रशमाद्भार्ययानया ॥९५॥ इत्युक्त्वा स मातङ्गोऽपि कृत्वा स्नानादिकां क्रियाम्। दर्शनाय हरेर्व्योम्ना श्वेतद्वीप गतोऽभवत् ॥९६॥

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · पृष्ठ 1070, कुल 1079 में से · BharatKosha