भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 145, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 145

१२२ कथासरित्सागर तमूचे जन्मभूमिं स्वमटव्यामपि मत्कृते । आवेद्य पितुस्तं च हस्ते ह्यम्बर कुरु ॥१६४॥ इति शृङ्गभुजेनोक्ता सा स रूपशिखाब्रवीत् । यदादिशसि तत्कार्यमार्यपुत्र मयाधुना ॥१६५॥ क्व जन्मभूः क्व स्वजनः सर्वमेतद् भवान् मम । न पतिव्यतिरेकेण सुस्त्रीणामपरा गतिः ॥१६६॥ तातस्यावेदनीयं तु नैतत्सोऽस्मान्हि न त्यजेत् । तस्मादविदितं तस्य गन्तव्यं क्रोधनस्य सः ॥१६७॥ आगमिष्यति यत् पश्चाद् बुद्ध्वा परिजनात्ततः । मोहयिष्याम्यबुद्धिं तं भीततुल्यं स्वविद्यया ॥१६८॥ इति तस्या वचः श्रुत्वा प्रहृष्टः सोऽमरद्युतिः । दत्तरत्न्यार्धमानर्घरत्नपूर्णसमुद्गया ॥१६९॥ तयैवानीततन्पादसुवर्णक्षरया सह । आरुह्य खरवेगाख्यं तदीयं तुरगोत्तमम् ॥१७०॥ वञ्चयित्वा परिजनं स्वैरोद्यानभ्रमच्छलात् । ततः शृङ्गभुजः प्रायादर्धमानपुरं प्रति ॥१७१॥ गतयोर्दूरमध्वानं बुद्ध्वा सोऽग्निश्शिखस्तयोः । दम्पत्योराययौ पश्चाद्भ्रमसा राक्षसः क्रुधा ॥१७२॥ तस्यागमनवगोत्थं शब्दं श्रुत्वा च दूरतः । मार्गे रूपशिखा साध्व तं शृङ्गभुजमब्रवीत् ॥१७३॥ आर्यपुत्रागतस्तातो निवर्तयितुमेष नः । तत्त्वमास्वेह निःशङ्कः पश्यैतं वञ्चये कथम् ॥१७४॥ नैष द्रक्ष्यति साश्वं त्वां विद्ययाच्छादितं मया । इत्युक्त्वाश्वादवतीर्णा सा पुरुषं माययाऽकरोत् ॥१७५॥ इहायाति महद्रक्षस्तत्त्वं तूष्णीं क्षणं भव । इत्युक्त्वा काष्ठिकं चात्र वार्धं वनमागतम् ॥१७६॥ तत्कुठारेण काष्ठानि पाटयन्ती किलास्त सा । तदा रूपशिखा शृङ्गभुजे पश्यति सस्मिते ॥१७७॥ तावत् सोऽग्निशिखस्तत्र प्राप्यैव काष्ठिकाकृतिम् । दृष्ट्वावतीर्य भगनाम्मुङ पप्रच्छ राक्षसः ॥१७८॥