भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 153, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 153

१५ कथासरित्सागर आययौ स तयैव प्रागयशोलिखया नृपा । दूषितोऽन्तःपुराध्यक्षो भ्रान्ततोयं सुरक्षितः ॥२२४॥ क्षत्रा निवेदितः स च प्रहृष्टः घरणानतम् । ज्ञातार्थोऽपूजयद्राजा भृशं धीरभुजोऽप्य सः ॥२२५॥ तेनैवानाय्य चान्यास्ता राज्ञीरेव दुर्जनीः । तमवोवाच गच्छैता भूगृहे निशिराः क्षिप ॥२२६॥ तच्छ्रुत्वा तासु भीतासु क्षिप्तासु कृपया नृपम् । तं सा गुणवरा देवी पादलग्ना व्यजिज्ञपत् ॥२२७॥ देव मामेव भूयोऽपि चिरं स्थापय भूगृहे । प्रसीद नैवमेता हि भीताः शक्नोमि वीक्षितुम् ॥२२८॥ इति प्रार्थ्य नृपं तासां वधनं सा न्यवारयत् । महतामनुकम्पा हि विरुद्धेषु प्रतिक्रिया ॥२२९॥ ततस्ताः प्रेषिताः राज्ञा लज्जिताः स्वगृहान् ययुः । अनिष्टमपि वाञ्छन्त्यो दीयमानं मुजान्तरम् ॥२३०॥ तां च राजा गुणवरां बहु मेने महाशयाम् । आत्मानं च तया पत्न्या कृतपुण्यममन्यत ॥२३१॥ अथानाय्य सुतानन्यान् स निर्वासिभुजादिकान् । निर्वासयिष्यन् युक्त्या तान् राजा कृतकमभ्यधात् ॥२३२॥ श्रुतं मया वणिक पापैर्भवद्भिः पथिको हतः । तद्वभास्तु सर्वतीर्थानि यात मा स्मेह तिष्ठत ॥२३३॥ तच्छ्रुत्वा त च शेकुस्ते नृपं बोधयितुं नृपाः । प्रभौ दृढप्रभूते हि कस्य प्रत्ययना भवेत् ॥२३४॥ ततस्तान् गच्छतो दृष्ट्वा भ्रातृन् शृङ्गभुजोऽप्य सः । कृपोद्भूताश्रुपूर्णाक्षः पितरं तं व्यजिज्ञपत् ॥२३५॥ तातापराधमेकं त्वं क्षमस्वैषां कृपां कुरु । इत्युक्त्वा पादयोस्तस्य निपपात स भूपतेः ॥२३६॥ सोऽपि मत्वा मरेन्द्रस्तं भूभृद्भारसहं सुतम् । यनोदयाधित बाष्पऽप्यवतारे हरेरिव ॥२३७॥ गुडांगया गैररथी वचस्तस्य तथाकरोत् । तेऽपि तं भ्रातरः सर्वे प्राणान् ममिरे निजम् ॥२३८॥