कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 189, कुल 1079 में से
संदर्भ में पढ़ें१६४ कथासरित्सागर नक्तं च तत्र संयम्य दत्तघासौ हयावुभौ । मन्त्रिद्वितीयो वासार्थमारुरोह महातरुम् ॥४२॥ तस्योरुशाखासविष्टो वित्रस्तहयहर्षिते । प्रबुद्धः सोऽन्तराधस्तादपश्यत् सिंहमागतम् ॥४३॥ दृष्ट्वा त्रातितितीर्षुं तमवतार्ये गोमुखोऽब्रवीत् । अहो देहानपेक्षं संभ्रमेणैव चेष्टसे ॥४४॥ शरीरमूला हि नृपा मन्त्रमूला च राजता । युयुत्ससे तत्तिर्यङ्मर्मखण्डदंष्ट्रायुधैः कथम् ॥४५॥ एतद्रक्षार्थमेवावामिहारूढौ हि सम्प्रति । इति गोमुखवागुढो युवराजः स सल्लम्रम् ॥४६॥ सिंहं तं तुरगं घ्नन्तं दृष्ट्वा छुरिकया द्रुतम् । आजघान नरो पृष्ठोत् क्षिपत्या स निमग्नया ॥४७॥ स तथा तेन विद्धोऽपि तं हत्वैव हयं बली । सिंहो व्यापादयामास द्वितीयमपि वाजिनम् ॥४८॥ ततो वत्सेश्वरसुतः खड्गमादाय गोमुखात् । तेन क्षिप्तेन मध्ये तं सिंहं द्वेधा चकार सः ॥४९॥ अवतीर्य च सगृह्य कृपाणीं सिंहदहृतः । खड्गं चारुह्य सोऽत्रैव वृक्षे रात्रिमथास ताम् ॥५०॥ प्रातस्ततोऽवतीर्णश्च प्रतस्थे गोमुखान्वितः । मरणाहनदत्तांस्तस्तां स कर्पूरिकां प्रति ॥५१॥ अथ पद्भ्यां प्रयान्तं तं सिंहेन हतवाहनम् । दृष्ट्वा विनोदयन्नेवमुवाच पथि गोमुखः ॥५२॥ इन्दीवरसेनानिच्छासेनयोः कथा येव प्रासङ्गिकामेतां कथामान्यामि ते शृणु । अस्तीहैरावती नाम नगरी विजितालका ॥५३॥ तस्यामभूत् परित्यागसेनो नाम महीपतिः । बभूवतुश्च तस्य द्वे देव्यौ प्राणसमे प्रिये ॥५४॥ एका स्वर्मश्रिततया नाम्नोऽधिकसङ्गुमा । नाम्ना तु काव्यालङ्कारा द्वितीया राजलक्षण ॥५५॥