कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 199, कुल 1079 में से
संदर्भ में पढ़ें१७२ कथासरित्सागर इति तौ वन क्षोभन्तौ दुःखितौ भ्रातरौ वत। प्राक् पित्रेवोपदिष्टां तां देवीं बध्यतुरम्बिकाम् ॥१०१॥ तस्या ध्यानप्रभावेण शरण्यायास्तदत्र तौ। विगतक्षुत्क्लमतृषौ बलिनौ च बभूवतुः ॥१०२॥ ततस्तत्प्रत्ययाच्छ्रस्तावविश्वासपथध्मौ । तामेव ययतुर्दृष्टु विन्ध्यकान्तारवासिनीम् ॥१०३॥ तत्र प्राप्तौ तदग्रे च भ्रातरौ तावुभावपि। प्रारभेतां निराहारौ तामाराधयितु तपः ॥१०४॥ अत्रान्तरे च ते तत्र सामन्ताः कटके स्थिताः । सम्भूय यावदायान्ति तयो पाप चिकीर्षवः ॥१०५॥ तावत् क्वचिन्न ददृशुर्विचिन्वन्तोऽपि सर्वतः । सौ समातामहो क्वापि राजपुत्रौ पलायितौ ॥१०६॥ ततश्चाशङ्क्य त मन्त्रभेद सर्वेऽपि ते भयात् । राज्ञस्तस्य परित्यागसेनस्यान्तिकमाययुः ॥१०७॥ प्रदर्श्य तस्मै सेखांश्च यथावृत्त तमब्रुवन्। सोऽत्र बुद्ध्या सद्वृत्तान्त क्रुद्धस्तानेवमब्रवीत् ॥१०८॥ नैत मत्स्रहिता लेखा इन्द्रजाल किमप्यदः । यूय च न किमेतावदपि जानीथ बालिशाः ॥१ ९॥ यदनल्पतपःप्राप्तावह हन्मि कथ सुतौ। युष्माभिस्तौ हतावेव सुहृत्त्वैस्तु रक्षितौ ॥११०॥ मातामहेन च तयोर्लक्षित मन्त्रिणाफलम्। इत्युक्त्वा तान् स सामन्तान् कायस्थ कूटलेखकम् ॥१११॥ तं पलायितमप्याशु स्वशक्त्यानाय्य भूपतिः । सम्यक पृष्ट्वा यथावृत्तं यथावन्निगृहीतवान् ॥११२॥ भार्या च काम्यारूङ्काराम् तादृक् कार्यविधायिनीम्। भूगृहे स निक्षिपेत पापां तां पुत्रघातिनीम् ॥११३॥ अविचार्य तु पर्यन्तमतिङ्गपान्थया धिया। सहसा हि कृतं पापं कथ मा भूद्विपत्तये ॥११४॥ ये च त राजपुत्राभ्यां राह गत्वाभ्युपागताः । सामन्तास्तान्निवार्याग्यांस्त्वत्परं स मृगो व्यधात् ॥११५॥