भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 269, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 269

२४ कथासरित्सागर चन्दनोदकसंसिक्तचारुरम्या पदे पदे। कटाक्षैः पौरनारीणां प्रकीर्णेन्दीवरामिव ॥७४॥ तत्र सम्बन्धिजामात्रोः कृत्वा वीरभटस्तयोः। पूजां यथावत्तनया-विवाहप्रक्रियां व्यधात् ॥७५॥ विशुद्धस्य हि भाराणां¹ सहस्रं काञ्चनस्य च। भृतं च शतमुष्ट्राणां रत्नाभरणभारकैः ॥७६॥ उष्ट्रपृच्छतशतीं नानावस्त्रभाराभिपूरिताम्। वाजिनां च सहस्राणि सप्त पञ्च च दन्तिनाम् ॥७७॥ रूपाभरणयुक्तानां सहस्रं वारयोषिताम्। वध्वां दुहित्रोः प्रददौ राजा वीरभटस्तयोः ॥७८॥ सूर्यप्रभस्य जामातुस्तत्पितुश्च तयोः पुनः। उपहारं ससद्रत्नैश्चकार विपुलैस्तथा ॥७९॥ समन्त्रिणो यथावच्च प्रहस्तादीनमानयत्। चकार सोत्सवं हृष्यत्स्वेषनगरीजनम् ॥८०॥ सूर्यप्रभश्च तत्रासीत्पितृयुक्तः प्रियासखः। तत्कालं विविधाहारपानगेयादिभोगभुक् ॥८१॥ तावच्च तत्र रम्भस्य सकाशाद्व्यधरात्रतः। आजगामद्रुतं स चास्थाने जगाद स्वप्रभोर्वचः ॥८२॥ विद्याबलाभिलिप्सेन युवराजेन न श्रुतः। सूर्यप्रभेण तनयाहरणोत्थः पराभवः ॥८३॥ अद्य च ज्ञातमस्माभिर्यद्वीरभटभूभृतः। प्रतिपन्ना स्नुषा स्थाने समानव्यसनस्य नः ॥८४॥ तच्चैव चानुमन्यध्वं यद्यस्मत्सन्धिमाशु तत्। इहाप्यागम्यतां नो चेन्मृत्युनो भोऽत्र निष्कृतिः ॥८५॥ तच्छ्रुत्वा तं च सम्मान्य दूतं वीरभटार्चितः। प्रहस्य सोऽब्रवीद्राजा तत्र चन्द्रप्रभः पुनः ॥८६॥ त्वमेव गच्छ तं रम्भमस्मद्वाक्यादिदं वद। किं तप्यसे वृथा भावी चक्रवर्ती हि निर्मितः ॥८७॥ विद्याधराणां विष्ण्वेनैष सूर्यप्रभाधुना। यस्यभाग्यगुणाद्यादन् भार्या सिद्धैरपाहृता ॥८८॥ १ भारः प्राचीनकालप्रचलितो मानः । 'भारः स्याद् विशतितुला' इत्यमरः। तान्त्रिक मानानुसारं सार्द्धद्विमन (२॥ मन) मितं प्रदेशेषु भारवाहकेन वोढुं शक्यते ।