भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 275, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 275

२४६ कथासरित्सागर ज्ञातं चेहाद्य मत्प्राप्ता हस्तं सूर्यप्रभस्य सा । तया सह सोऽस्माकं गृहमायात्वशङ्कितः ॥११८॥ सत्कृत्य प्रेषयिष्यामि सभार्यं च यथाविधि । अन्यथा शत्रवो यूयं मम युष्माकमप्यहम् ॥११९॥ इत्युक्त्वा स्वामिवचनं दूतस्तूष्णीं बभूव सः । अथ चन्द्रप्रभः सर्वानैकान्ते क्षितिपोऽब्रवीत् ॥१२०॥ कथमद्य सदर्पोक्तैर्गम्यते तस्य वेश्मनि । तच्छ्रुत्वा तस्य सिद्धार्थनामा मन्त्र्येवमभ्यधात् ॥१२१॥ नान्यथा देव मन्तव्यं वक्तुमद्य हि सोऽर्हति । स हि राजा महादाता पण्डितः सत्कुलोद्गतः ॥१२२॥ शूरोऽश्वमेधयाजी च सदैवान्यपराजितः । विरुद्धं किं नु तेनोक्तं यथावस्तुमभिधायिना ॥१२३॥ शत्रुतोद्वाह्यता मा वा सा प्राप्तप्रकृतेऽधुना । तद् गन्तव्यं गृहे तस्य सत्यसन्धो नृपो हि सः ॥१२४॥ तदपि प्रेष्यतां कश्चित्तस्य चित्तोपसम्भये । इति सिद्धार्थवचनं सर्वे ददृशुरत्र ते ॥१२५॥ ततो जिज्ञासितुं चन्द्रप्रभस्तं जनमेजयम् । प्रहस्तं व्यसृजत्तं च दूतं तस्याप्यानयत् ॥१२६॥ प्रहस्तश्च स गत्वा तं कौशाम्बीशं ससंविदम् । विधायानीय तल्लेखं चन्द्रप्रभमतोषयत् ॥१२७॥ सोऽपि राजा तमेवाशु प्रहस्तं प्रेष्य धान्ध्रकात् । जनमेजयपार्श्वं तां परपुष्टामनाययत् ॥१२८॥ ततश्चन्द्रप्रभाद्यास्ते सूर्यप्रभपुरोगमाः । सकान्तिसेना कौशाम्बीं विमानेनागमन् नृपाः ॥१२९॥ तत्र सम्बन्धिजामातृमुख्यान् प्रत्युद्गमादिना । प्रहृस्तान्युपभामास स राजा जनमेजयः ॥१३०॥ ददौ च कृत्वा दुहितुर्विवाहविधिसत्क्रियाम् । पञ्च हस्तिसहस्राणि लक्षं च वरवाजिनाम् ॥१३१॥ रत्नकाञ्चनवस्त्रेषुपूगगगपूरित । मारेर्भतानामुष्ट्राणां सहस्राण्यपि पञ्च सः ॥१३२॥