भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 303, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 303

२७४ कथासरित्सागर सोऽत्रामत्र स्वदेहस्ते पूर्वभार्यावृतः स्थितः । प्रविशैनमिति स्माह ततश्चन्द्रप्रभं मयः ॥११८॥ सोऽथ तनोपदिष्टं च योगमास्थाय भूपतिः । तस्मिन् पुरुषदेहेऽन्तस्त्यक्त्वैतत्स्ववपुरावशत् ॥११९॥ ततः स जृम्भिकां कृत्वा शनैरुन्मील्य लोचने । गतनिद्र इवोत्तस्थौ पुरुषः शयनीयतः ॥१२०॥ दिष्ट्या देव सुनीथोऽद्य प्रत्युज्जीवित एष नः । इति प्रमोदमुग्धावो दृष्ट्वासुरवधूकथा ॥१२१॥ सूर्यप्रभाद्याः सर्वे तु विषण्णाः सहसाऽभवन् । दृष्ट्वा निपतितं चन्द्रप्रभदेहमजीवितम् ॥१२२॥ चन्द्रप्रभसुनीथश्च सुखस्वापादिवोत्थितः । दृष्ट्वा मयं ववन्दे स पितरं पादयोः पतन् ॥१२३॥ स पितापि तमालिङ्ग्य पृष्टवान् सर्वसन्निधौ । कच्चित् स्मरसि पुत्र द्वे जन्मनी त्वं हि सम्प्रति ॥१२४॥ सोऽपि स्मरामीत्युक्त्वैव यच्चन्द्रप्रभजन्मनि । सुनीथजन्मनि च यत्तस्य वृत्तं तदुक्तवान् ॥१२५॥ नामग्राहं सदेवीकान् स च सूर्यप्रभादिकान् । एकैकमाश्वासितवान् पूर्वभार्याश्च दानवीः ॥१२६॥ चन्द्रप्रभत्वे जातं च देहं नैराश्यमुज्झितः । भवेन्मातृपयोगीति स्थापयामास रक्षितम् ॥१२७॥ ततोऽन्यनत्वम् भगता जातप्रत्ययनिर्वृताः । चन्द्रप्रभसुनीथं च दृष्ट्वा सूर्यप्रभादयः ॥१२८॥ मयासुरोऽथ सर्वांस्तान् हर्षात्नीत्वा पुरस्ततः । अन्यत् प्रवेशयामास हेमरत्नचितं पुरम् ॥१२९॥ प्रविष्टास्तत्र वैदूर्यवापीं ते ददृशुर्मुदाम् । सुधाग्सेन तस्याश्च तीरे सर्वेऽप्युपाविशन् ॥१३० ॥ पपुश्च तत्सुधापानममृताधिकमत्र ते । सुनीथभार्योपहृतैर्विचित्रैर्मणिभाजनैः ॥१३१॥ तेन पानेन ते सर्वे मतसुप्तोत्थितास्ततः । सम्पेदिरे दिव्यदेहा महाबलपराक्रमाः ॥१३२॥