कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 377, कुल 1079 में से
संदर्भ में पढ़ें१४६ कथासरित्सागर इत्युक्तो देवगुरुणा महेन्द्रस्त्रिदशैः सह। गत्वा ययाचे नमुचिं तमुच्चैःश्रवसं हयम् ॥२२८॥ न मे पराङ्मुखो गच्छेत्प्रार्थी सन्नापि वासवः। तस्मै नमुचिर्भूत्वा दद्यां नाहं कथं हयम् ॥२२९॥ जगत्सु वसुदाकीर्तिर्या मया चिरमर्जिता। सा चेन्म्लानिं गता तन्मे किं धिया जीवितेन वा ॥२३०॥ इति सञ्चिन्त्य शक्राय तमुच्चैःश्रवसं ददौ। वार्यमाणोऽपि शुक्रेण नमुचिः स महायशः ॥२३१॥ दत्ताश्वमथ विश्वास्य तं गाङ्गेन जघान सः। शस्त्राद्यवध्यं फेनेन वञ्चयन्नस्तनं वृत्रहा ॥२३२॥ अहो दुरन्ता संसारे भोगतृष्णा यया हताः। अनौचित्यादकीर्तेश्च देवा अपि न बिभ्यति ॥२३३॥ तच्छ्रुत्वा तस्य नमुचेरनुमाता तपोबलात्। चकार दुःखसन्तप्ता सङ्कल्पं शोकशान्तये ॥२३४॥ स एव मे पुनर्गर्भे सम्भूयान्नमुचिर्बली। भूयाच्च सर्वदेवानामजेयः संयुगेष्विति ॥२३५॥ ततः स तस्याः सम्भूय गर्भे जातोऽसुरः पुनः। सर्वरत्नमयो नाम्ना प्रबलो बलयोगतः ॥२३६॥ सोऽपि तप्ततपाः प्रीणन् प्राणैरप्यर्थिनः कृती। शतकृत्वो जिगायेन्द्रं प्रबलो दानवेश्वरः ॥२३७॥ ततः सम्मन्त्र्य देवास्तमुपेत्येदं ययाचिरे। देहं पुरुषमेधार्थमस्मभ्यं देहि सर्वथा ॥२३८॥ तच्छ्रुत्वा स रिपुभ्योऽपि तेभ्यो देहमदान्निजम्। प्राणानुदारा विसृजन्त्यर्थिनो न पराङ्मुखान् ॥२३९॥ ततः स खण्डशो देवैः कृतः प्रबलदानवः। मनुष्यलोके जातोऽथ प्रभाववपुषा पुनः ॥२४०॥ तदेयमास्ते नमुचिस्ततोऽभूत् प्रबलश्च सः। शैष मस्तत्पुन न्ददुर्जयोऽरिभिः ॥२४१॥ गमनम्। वेदेषु नरमेधविचारो नास्तीति श्रौतप'