कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 393, कुल 1079 में से
संदर्भ में पढ़ेंरक्ताम्बुपूरभरितं न परं समराङ्गणम्। यावत्सन्ध्याकृतपदं ययौ व्योमापि शोणताम् ॥९१॥ कबन्धैः सह भूतेषु सन्ध्यान्नृत्तोद्यतत्विष । संहृत्य युद्धं ययतुः स्वनिवेशाय तद्वले ॥९२॥ श्रुतशर्मबलं तस्मिन्दिने वीरा हतास्त्रयः । त्रयस्त्रिंशत्प्रवीरांस्तु बले सूर्यप्रभे हताः ॥९३॥ तत बान्धवमित्रादिनिधनेन सुदुर्मना । सूर्यप्रभस्त्रियामां तामासीदन्तःपुरैर्विना ॥९४॥ अनिद्र एव सचिवैः सह सङ्ग्रामसत्कथा । तास्ताः कुर्वन्निनायतां पुनर्युद्धोन्मुखो निशाम् ॥९५॥
स्त्रीषु युद्धचर्चा सूर्यप्रभचर्चा च
तद्भार्याश्च मिलन्ति स्म हतबान्धवदुःखिताः । एकत्र तस्यां रजनावन्योन्याश्वासनागताः ॥९६॥ रुदितावसरेष्वत्र कथा नानाविधा व्यधुः । स्त्रीणां न स क्षणो यत्र न कथा स्वपराश्रया ॥९७॥ तत्प्रसङ्गेन तत्रैका राजपुत्रीदमब्रवीत् । आश्चर्यमार्यपुत्रोऽद्य कथं सुप्तो निरञ्जनः ॥९८॥ तच्छ्रुत्वा व्याजहाराया सङ्ग्रामे स्वजनक्षयात् । दुःखितो ह्यार्यपुत्रोऽद्य रमते स्त्रीजने कथम् ॥९९॥ ततोऽपरा ब्रवीति स्म प्राप्नोत्यभिनवां यदि । वरकन्यां स तद्दुःखं विस्मरेत्यधुनैव तत् ॥१००॥ अथेत्तराब्रवीन्मैवं यद्यपि स्त्रीषु लम्पटः । तथापि न स दुःखेऽस्मिन्नीदृशः स्यात्तथाविधः ॥१०१॥ इति तासु वदन्तीषु जगादैका सविस्मयम् । धूत स्त्रीलम्पटः कस्मादार्यपुत्रो यतादृशः ॥१०२॥ आहितास्वपि भार्यासु भूयसीषु नवां नवां । अनिशं राजपुत्रीर्यस्तं शृङ्गैश्चैव तुष्यति ॥१०३॥ एतच्छ्रुत्वा विदग्धैका तासु नाम्ना मनोरथी । उवाच श्रूयतां येन राजानो बहुवल्लभाः ॥१०४॥