भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 417, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 417

१८४ कथासरित्सागर सिद्धैश्च विद्याधरचक्रवर्तिपत्नी भवित्री गदिता प्रभो सा। तन्मोचयेनां कुरु न प्रमादं यावन्न दूरं ह्रियते हठेन ॥१२६॥ इत्यार्त्तवेतालवचो निशम्य प्रयात तां मोचयतेति सोऽस्मान्। देवः समादिशदथाम्बरेण गत्वैव सास्माभिरवापि कन्या ॥१२७॥ सचक्रवर्त्तिश्रुतशर्महेतोरेनां हरामीति च तं वदन्तम्। संस्तम्भ्य तेजःप्रभवाद्रथस्था सास्माभिरानीय विमोचितीर्णा ॥१२८॥ तेनापिता च स्वजनाय कन्या दृष्टं मया काममपूर्वमेतत्। ततोऽत्र काश्चिद्दिवसानुषित्वा प्रणम्य यवं तमिहागतास्मि ॥१२९॥ इत्युक्तवाक्या खरभानना सा योगिन्यथास्माभिरपृच्छ्यतैतम्। को ब्रूहि विद्याधरचक्रवर्ती भविष्यति त्वं खलु वेत्सि सर्वम् ॥१३०॥ सूर्यप्रभो हन्त भविष्यतीति प्रोक्ते तया सिंहबलोऽब्रवीत्ती। असत्यमेतद्भगनु बद्धकक्ष्या देवा हि सेन्द्राः श्रुतशर्मपक्षे ॥१३१॥ ध्रुवन्तदार्या भवति स्म सा नो न प्रत्ययच्चेच्छृणुत ब्रवीमि। यथा भविष्यत्यचिरेण युद्धं सूर्यप्रभस्य श्रुतशर्मणश्च ॥१३२॥ हनिष्यते सिंहबलो यदाथ युष्मत्समक्षं युधि मानुषेण। युवामभिज्ञानमिदं विलोक्य विश्वास्त्यथः सत्यमिदं वचो मे ॥१३३॥ एतावदुक्त्वा किल योगिनी सा ययौ च यातानि च तान्यहानि। प्रत्यक्षमध्येह च दृष्टमेतन्मर्त्येन यत्सिंहबलो हतोऽसौ ॥१३४॥ तत्प्रत्ययान्निश्चितमेव मत्वा त्वामेव सर्वद्युचराधिराजम्। [L21: आवामिमौ पादसरोजयुग्मं समाश्रितौ शासनवर्तिनौ ते ॥१३५॥ इत्युक्तवन्तौ स मयादियुक्तः सूर्यप्रभस्तावथ खेचरेन्द्रौ। श्रद्धाय सम्मानितवाग्यथाहं दृष्टो महायानसुमायको द्वौ ॥१३६॥ संश्रुत्या श्रुतशमणोऽत्र सुतरामुद्वेगभाजो व्यधा- दाश्वासं किल दूत्यया क्षतमगं सम्प्रेष्य विद्भावसुम्। धीरस्त्वं भव सर्वदेवसहितः प्रातं करिष्यामि ते साहाय्यं रणमूर्धनीति पृथिवूरसन्दथ तत्स्नेहतः ॥१३७॥ स च परबलभेनालोकनोत्पन्नतोषः समरशिरसि दृष्ट्यारातिपक्षाक्षयञ्च। पुनरपि निजरान्ताः प्रोन्नमन् सूर्यप्रभस्मा जिनि गभिदगमेतो यामरं स्वं विवेश ॥१३८॥ इति महाकविश्रीमत्सोमदेवभट्टविरचिते कथासरित्सागरे सूर्यप्रभलम्बके पञ्चमस्तरङ्गः।

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · पृष्ठ 417, कुल 1079 में से · BharatKosha