कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 475, कुल 1079 में से
संदर्भ में पढ़ें[page header] ४१८ कथासरित्सागर
इत्युक्त्वान्तर्दधे सूर्यप्रभेणाभ्यर्थिता जया। अत्रैवाह्नि सुमेरुश्च लग्नं निश्चितवान्ध्रुवम्॥१२९॥ वेदीमकारयत्सोऽथ सप्तरत्नस्तम्भकुट्टिमाम्। युक्तां तद्रश्मिजालेन पिहितेनेव वह्निना ॥१३०॥ आनाययामास च तां कामचूडामणिं सुताम् । निपीयमानलावण्यां सोत्कैर्देवासुरैर्दृशा ॥१३१॥ उमा हिमवतो जाता जाता सेयं सुमेरुतः । इतीव तत्समानेन सौन्दर्येण समाभिताम् ॥१३२॥ ततो वेदीं समारोप्य कृतकौतुकशोभिताम्। प्रसाधितां सुमेरुस्तां ददौ सूर्यप्रभाय सः ॥१३३॥ सूर्यप्रभश्च जग्राह कामचूडामणेस्तदा। दनुप्रभृतिभिर्वेदकङ्कण पाणिपङ्कजम् ॥१३४॥ ददौ लाजविसर्गे च प्रथमे तत्क्षणागता। जया भवानीप्रहिता दिव्यां मालाममश्वरीम् ॥१३५॥ सुमेरुश्चाप्यनर्घाणि रत्नानि प्रददौ तदा। ऐरावणात्समुत्पन्नं दिव्यं च वरवारणम् ॥१३६॥ द्वितीये लाजमोक्षे च जया रत्नावलीमदात्। यया कण्ठस्थया मृत्युः क्षुत्तृष्णा च न बाधते ॥१३७॥ सुमेरुश्च ददाति स्म त्रिगुणं रत्नसञ्चयम्। उच्चैःश्रवसःप्रसूतं च हयरत्नमनुत्तमम् ॥१३८॥ लाजमोक्षे तृतीये च ददावेकावलीं जया। यौवनं क्षीयते नैव यया कण्ठावलम्बया ॥१३९॥ सुमेरुस्त्रिगुणं राशिं रत्नानां प्रचितीय च। दत्तवान्गुलिकां दिव्यां सर्वसिद्धयुपयोगिनीम् ॥१४०॥ ततो विवाहे निर्वृत्ते सुमेरुः ससुरासुरान्। विद्याधरान्देवमातॄः सर्वानैवं व्यजिज्ञपत् ॥१४१॥ भोक्तव्यमद्य युष्माभिः सर्वैरैष गृहे मम। अनुग्रहश्च कर्तव्यो बद्धो मूर्ध्नि मयाञ्जलिः ॥१४२॥ एवमभ्यर्थनां तस्य सुमेरोः सर्व एव ते। यावत्प्रेच्छन्ति तावच्च मन्दी तत्रागतोऽभवत् ॥१४३॥