कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 503, कुल 1079 में से
संदर्भ में पढ़ें४६६ कथासरित्सागर ततः सवाष्पो रामस्त मवमानाय्य तावुभौ । कण्ठे जग्राह सैषोऽहं पापो राम इति ब्रुवन् ॥११०॥ अथ सीतां प्रशंसत्सु वीरो पश्यत्सु तौ शिशू । पौरेषु मिलितञ्चक्र स तौ रामोऽग्रहीत्सुतौ ॥१११॥ आनाम्य सीतादेवीं च वाल्मीकेराश्रमात्ततः । तया सह सुखं तस्थौ पुत्रन्यस्तभरोऽथ सः ॥११२॥ एवं सहन्ते विरहं धीराश्चिरमपीदृशम् । न सहषे मुग्धां पुत्रीं कथमेकामपि क्षपाम् ॥११३॥ इत्यात्मजामलङ्कारवतीं परिणयोत्सुकाम् । नरवाहनदत्तं च तमुक्त्वा काञ्चनप्रभा ॥११४॥ नभसा प्रातरागन्तुमगादादाय तां सुताम् । नरवाहनदत्तोऽपि कौशाम्बीं विमना ययौ ॥११५॥ तत्रानिद्रं निशि स्माह गोमुखस्तं विनोदयन । पृथ्वीरूपकथां देव शृण्विमां कथयामि ते ॥११६॥ पृथ्वीरूपवरनृपतेः रूपलतायाश्च कथा अस्ति नाम्ना प्रतिष्ठानं नगरं दक्षिणापथे । पृथ्वीरूपाभिधानोऽभूद्राजा तत्रातिरूपवान् ॥११७॥ तं परिक्षितिनौ जातु श्रमणौ द्वावुपेयतुः । विलोक्याद्भुतरूपं च तावेव नृपमूचतुः ॥११८॥ द्वावावां पृथिवीं भ्रान्तौ न च रूपेण ते समम् । अन्यं पुमांस नारीं वा दृष्टवन्तौ क्वचित्प्रभो ॥११९॥ किं तु मुक्तिपुरद्वीपे राज्ञो रूपधरस्य या । अस्ति हेमप्रभादभ्यां जाता रूपलता सुता ॥१२ ०॥ सैका ते सदृशी कन्या तस्याश्चैको भवानपि । युवयोर्यदि संयोगो भवेत्स्यात्सुकृतं ततः ॥१२१॥ इति श्रमणवाक्येन समं मदनसायकाः । प्रविश्य श्रुतिमार्गेण रागस्तस्यांससञ्ज हृदि ॥१२२॥ ततः समुत्सुको राजा निजं चित्रकरोत्तमम् । कुमारदत्तनामानं पृथ्वीरूपः समादिशत् ॥१२३॥