कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 517, कुल 1079 में से
संदर्भ में पढ़ें४८० कथासरित्सागरे
तावच्च हेमरत्नाश्वविमानवाहाः सहस्रशः । अन्येऽप्यवतरन्ति स्म तत्र विद्याधरा दिवः ॥२१३॥ विज्ञायतं च वृत्तान्तं वत्सराजः समन्त्रिकः । सपत्नीकश्च तन्नागासनयोत्कर्षहर्षितः ॥२१४॥ यथार्हविहितातिथ्ये तस्मिन्वत्सेश्वरेऽथ सः । राजालङ्कारशीलस्तमुवाच प्रणयान्नतः ॥२१५॥ राजन्नलङ्कारवती कन्येयं स्तनया मम । जातेव यैषा व्यादिष्टा गगनोद्गतया गिरा ॥२१६॥ नरवाहनदत्तस्य भार्यामुष्य सुतस्य ते । सर्वविद्याधरेन्द्राणां भाविनश्चक्रवर्तिनः ॥२१७॥ तदेतस्मै ददाम्येनां लग्नो ह्यद्यानयोः शुभः । एतदर्थं मिलित्वाहमेतैः सर्वैरिहागतः ॥२१८॥ एतद्विद्याधरेन्द्रस्य तस्य वत्सेश्वरो वचः । महाननुग्रह इति ब्रुवन्नभिननन्द सः ॥२१९॥ अथ निजविद्याविभवात्पाणितलोत्पादितेन तोयेन । अभ्युक्षति स्म सोऽङ्गनभूमिं विद्याधराधीशः ॥२२०॥ तत्रोत्पेदे वेदी कनकमयी दिव्यवस्त्रसंछन्ना । नानारत्नमयं चाप्यकृत्रिमं कौतुकागारम् ॥२२१॥ उत्तिष्ठ लग्नवेला प्राप्ता स्नाहीत्युवाच तदनुकृती । तं नरवाहनदत्तं राजाऽलङ्कारशीलोऽसौ ॥२२२॥ स्नाताय कौतुकभृते वेदीमानीय धृतवधूवेषाम् । हृष्टोऽलङ्कारवतीं स ददौ कनकसारमर्जा तस्मै ॥२२३॥ मणिकनकवस्त्रभूषणभारसहस्राणि दिव्यनारीश्च । अग्नी लाजविसर्गेऽप्यददाच्च स सारमजो दुहितुः ॥२२४॥ निर्वृत्ते च विवाहे सर्वान्सम्भाव्य तदनु चामन्त्र्य । सह पत्न्या पुत्रेण च नभसैव यथागतं स ययौ ॥२२५॥ अथ वीक्ष्य तपोपचयमानं प्रणते मेघरराजभिस्तनूजम् । उदयोन्मुखमथ वत्सराजो मुदितस्तं चिरमुत्सवं ततान ॥२२६॥