भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 541, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 541

मात्रैषां शक्तिरन्येषामधुनावसरोऽस्ति ते। प्रतिज्ञातं त्वया नारीं जीवयामि मृतामिति॥१५६॥ यदि विद्याबलं तद्‌स्ति तज्जीवय सुतां मम। दास्यामि तुभ्यमेवैतां विप्राय प्राप्तजीविताम्॥१५७॥ इति राज्ञो वचः श्रुत्वा जीवदत्तोऽभिमन्त्रितैः। अभ्युक्ष्य तोयैस्तां राजपुत्रीमार्यामिमां जगौ॥१५८॥ 'अट्टाट्टहासहसिते करङ्कमालाकुले दुरालोके। चामुण्डे विकराले साहाय्यं मे कुरु त्वरितम्'॥१५९॥ एव तेन कृते यत्ने जीवदत्तेन सा यदा। धान्ना न जीवितं प्राप विषण्णः सोऽवदत्तदा॥१६०॥ यत्सापि विन्ध्यवासिन्या विद्या मे निष्फला गता। तदेतेनोपहास्येन किं कार्यं जीवितेन मे॥१६१॥ इत्युक्त्वा जीवदत्तः स्वं शिरश्छेत्तुं महासिना। यावत् प्रवर्त्तते तावदुद्‌गाद् भारती दिवः॥१६२॥ भो जीवदत्त मा कार्षीः साहसं शृणु सम्प्रति। एषानङ्गरतिर्नाम सा विद्याधरकन्यका॥१६३॥ पित्रोः शापेन मानुष्यमियन्तं कालमागता। त्यक्त्वाद्यैतां तनुं याता स्वलोकं स्वतनौ स्थिता॥१६४॥ तद्विन्ध्यवासिनीमद्य गत्वाराधय तां पुनः। तत्प्रसादादिमां प्राप्स्यस्यपि विद्याधरीं सतीम्॥१६५॥ न चैषा दिव्यभोगस्था शोच्या राज्ञो न चापि ते। इत्युदीर्य यथातत्त्वं दिव्या वाग्विरराम सा॥१६६॥ ततः सुतायाः सस्कारं कृत्वा राजा जहौ शुचम्। सदारोऽपि ययुस्तज्ज्ये ष्ठयो भीरा यथागतम्॥१६७॥ जीवदत्तस्तु जातास्थो गत्वा तां विन्ध्यवासिनीम्। तपसाराधयामास स्वप्ने साप्यादिदेश तम्॥१६८॥ अनङ्गप्रभायाः कथा सुप्ता तवाहमूत्तिष्ठ शृणु चेदं ब्रवीमि ते। अस्ति वीरपुरं नाम नगरं तुहिमाचले॥१६९॥ विद्याधराधिराजोऽस्ति समरो नाम तत्र च। तस्यानङ्गवतीदेव्यां सुतानङ्गप्रभाजनि॥१७०॥