भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 55, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 55

३६ कथासरित्सागर विचार्य मरजातेन दत्त्वा वृत्तिं दयालुना। गृहीतोऽहं प्रवहणे स्वर्णद्वीप यियासता ॥८०॥ ततोऽकस्मात्प्रवहणेनाब्धिमध्येन गच्छताम्। पञ्चस्वहस्सु यातेषु मेघोऽकस्माद्ववृष्यस ॥८१॥ प्रवृष्टे स्थूलधारामिर्मघेऽस्मिन्मारुतेन तत्। अघूर्णत प्रवहणं मत्तहस्तिशिरो यथा ॥८२॥ क्षणाच्चिमज्ज भग्नेऽस्मिन्यानपात्रे विधेर्वशात्। एकं फलकक प्राप्तस्तत्काल मज्जता मया ॥८३॥ तवाऽवस्तत शान्ते मेघाटोपे विधेर्वशात्। इमं प्रदेशं प्राप्याहमुत्तीर्ण साम्प्रतं वने ॥८४॥ वीक्ष्य चेदं चतुश्शालं प्रविश्याभ्यन्तर मया । दृष्टा दृष्टिसुधावृष्टिस्त्व तापशमनी शुभे ॥८५॥ इत्युक्तवन्तं पर्यङ्के निवेश्यालिङ्गि तम्। मोहिता राजवत्ता सा मदेन मदनेन च ॥८६॥ स्त्रीत्वं शीजत्वमेकान्तं पुंसो लामोऽनियन्त्रणा । यत्र पञ्चाम्यस्तत्र वार्त्ता शीलसूनस्य का॥८७॥ न चैवं क्षमते भारी विचारं मारमोहिता। यदियं चकमे रात्री तमकाम्यं विपद्गतम् ॥८८॥ तावच्च रत्नाधिपतिः स राजा रत्नकूटतः। आजगामोत्सुकस्तूर्णं शुचरद्विपवाहनः ॥८९॥ प्रविशंश्चात्र सोऽपश्यत्सादृश्येनापि तेन ताम्। पुरुषेण समं भार्या राजवत्तां रतिस्थिताम् ॥९०॥ दृष्ट्वा जिघांसितमपि क्षितीशः पुरुष स तम्। नाबधीत्पादपतितं युवानं कृपणा गिरः ॥९१॥ भार्या भीतां च मत्तां तां स वीक्ष्यैवमचिन्तयत् । मद्ये मारैकसुहृदि प्रसक्ता स्त्री सती कुतः ॥९२॥ श्चियन्तु चपला नारी रक्षमापि न शक्यते। किं नामालोलवाताली बाहुभ्यां जातु बध्यते ॥९३॥ न कृत गणकोक्तं यत्तदिदं तस्य मे फलम्। विपाककटुकं तस्य माप्तवाक्यावधीर णम् ॥९४॥