कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 579, कुल 1079 में से
संदर्भ में पढ़ें५३२ कथासरित्सागर किमेतया वराक्या ते भजाम्मानेहि नन्दनम्। इतीव च सुरस्त्रीभि स नीतोऽभूत् सुरालयम् ॥३६१॥ साप्यनङ्गप्रभा तस्मिन् राज्ञि सागरवर्मणि। नदीव सागरे स्थैर्यं धत्तव्यानन्यगामिनी ॥३६२॥ भवितव्यबला मेने तेन परया कृतार्थताम्। सोऽपि जन्मफल प्राप्तं तयामन्यत भार्यया ॥३६३॥ दिनेषु तस्य राज्ञी सा राज्ञः सागरवर्मणः। दधेऽनङ्गप्रभा गर्भं काले च सुषुवे सुतम् ॥३६४॥ नाम्ना समुद्रवर्माणं त स राजा पिता शिशुम्। चकार विहितोदारपुत्रजन्ममहोत्सव ॥३६५॥ क्रमाच्च वृद्धिमायांतं सगूण प्राप्तयौवनम्। यौवराज्येऽभिषिञ्चत्त सुतं स भुजशालिनम् ॥३६६॥ विवाहहेतोस्तस्याथ सूनो समरवर्मणः। राज्ञः कमलवर्माख्यां सुतामाहरति स्म सः ॥३६७॥ कृतोद्वाहाय तस्मै च पुत्रायावर्जितो गुणैः। समुद्रवर्मणे राज्यं निजं प्राशात् स भूपतिः ॥३६८॥ सोऽपि प्राप्यैव तद्राज्यमोजस्वी क्षत्रधर्मवित्। समुद्रवर्मा पितरं प्रणतस्त व्यजिज्ञपत् ॥३६९॥ अनुजानीहि मां तात दिशो जेतुं व्रजाम्यहम्। अजिगीषु पतिर्भूमिर्निन्द्य क्लीब इव स्त्रिय ॥३७०॥ धर्म्या कीर्तिकरी सा च लक्ष्मीरिह महीभुजाम्। या जित्वा परराष्ट्राणि निजबाहूबलाज्जिता ॥३७१॥ किं तेषां तात राज्यस्य क्षुद्राणामभिभूतये। स्वप्रजामेव खादन्ति मार्जारा इव लोलुपा ॥३७२॥ इत्यूचिवान् स तेनोचे पित्रा सागरवर्मणा। नूतनं पुत्र राज्यं ते तत्तावत्त्वं प्रसाधय ॥३७३॥ नास्त्यपुण्यमकीर्तिर्वा प्रजा धर्मेण शासतः। अनवेक्ष्य च शक्तिं स्वां युक्तो राज्ञां न विग्रहः ॥३७४॥ वत्स यद्यपि शूरस्त्वं सैन्यमस्ति च ते बहु। तथापि नैव विश्वासो जयश्रीश्चपला रणे ॥३७५॥