भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 581, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 581

५३४ कथासरित्सागर इत्यादि पित्रा प्रोक्तोऽपि तमनुज्ञाप्य यत्नतः। समुद्रवर्मा स ययौ तेजस्वी दिग्विजयया ॥३७६॥ क्रमेण च दिशो जित्वा स्थापयित्वा वशे नृपान्। प्राप्तहस्त्यश्वहेमादिराययौ नगरं निजम् ॥३७७॥ तत्र पित्रोर्महारत्नैर्नानादेशोद्भवैश्च सः। चरणौ पूजयामास प्रणतः परितुष्टयोः ॥३७८॥ तदाज्ञया च प्रददौ ब्राह्मणेभ्यो महायशाः। महादानानि हस्त्यश्वहेमरत्नमयानि सः ॥३७९॥ ततो वसु सखिभ्यो भृत्यभ्यश्च ववर्ष सः। एको दरिद्रशब्दोऽत्र यथामूद्यर्थवर्जितः ॥३८०॥ तद्दृष्ट्वा पुत्रमाहात्म्यमात्मनः कृतकृत्यताम्। राजा सागरवर्मा स मेनेऽङ्गप्रभायुतः ॥३८१॥ उत्सवेन च नीत्वा तान्यहानि नृपतिः स तम्। पुत्रं समुद्रवर्माणमवोचन्मन्त्रिसन्निधौ ॥३८२॥ यन्मया पुत्र कर्तव्यं कृतं तदिह जन्मनि। भुक्तं राज्यसुखं दृष्टं परेभ्यो न पराभवः ॥३८३॥ दृष्टस्त्वत्तत्साम्राज्यं किमप्यत् प्राप्यमस्ति मे। तदाश्रयाम्यहं तीर्थं यावन्न ध्रियते तनुः ॥३८४॥ विनश्वरे शरीरेऽस्मिन् किमद्यापि गृहे तव। इतीवेषा जरा पश्य कर्णमूले ब्रवीति मे ॥३८५॥ इत्युक्त्वा स सुतेऽनिर्बन्धयत्यपि तस्मिन् नृपः कृती। ययौ सागरवर्माऽथ प्रयागं प्रियया सह ॥३८६॥ समनुव्रज्य पितरं स चागत्य निजं पुरम्। समुद्रवर्मा स्वं राज्यं यथाविधि शशास तत् ॥३८७॥ राजा सागरवर्माऽपि सोऽनङ्गप्रभया युतः। प्रयागे तपसा देवं वृषध्वजमतोषयत् ॥३८८॥ स स्वप्ने तमुवाचेव त्रिपुरारिनिशाक्षये। तुष्टोऽस्मि ते सभार्यस्य तपसा तदिदं शृणु ॥३८९॥ एषानङ्गप्रभा त्वं च युवां विद्याधरावुभौ। शापक्षयान्निजं लोकं प्रातः पुत्र गमिष्यथः ॥३९०॥