कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 587, कुल 1079 में से
संदर्भ में पढ़ें५४० कथासरित्सागर सञ्चूङ्क्ष्वा गोमुखोऽथावीत्साधूक्तं मरुभूतिना। किं पुनर्निराशोऽस्ति तव देवात्र कश्चन ॥५॥ क्षयो यावन्न वृत्तो हि पापस्य परिपन्थिनः। तावद्दानप्रवृत्तोऽपि दातुं शक्नोषि न प्रभुः ॥६॥ परिक्षीणे पुनः पापे वार्यमाणोपि यत्नतः। ईश्वरः प्रददात्येव कर्णाभरणमिदं किल ॥७॥ तथा च रूक्षदत्तस्य राज्ञः कार्पटिकस्य च। लब्धदत्तस्य देवेतां कथामाख्यामि ते शृणु ॥८॥ राज्ञो रूक्षदत्तस्य लब्धदत्त कार्पटिकस्य च कथा अभूल्लक्षापुरं नाम नगरं वसुधातले। तत्रासील्लक्षदत्ताख्यस्त्यागिनामग्रणीर्नृपः ॥९॥ रूक्षादूनं न दातुं स जानाति स्म किमार्थिने। सम्भ्रमात् तु य तस्मै ददौ लक्षाणि पञ्च सः ॥१०॥ तुष्टोप यस्मै स पुनर्निर्दारिद्र्यं चकार तम्। रूक्षदत्त इति ख्यातं नाम तस्यात एव तत् ॥११॥ तस्यैको लब्धदत्ताख्यः सिंहद्वारे दिवानिशम्। तस्थौ कार्पटिकश्चर्मखण्डैककटिकर्पटः ॥१२॥ स निवस्त्रटः शीतवर्षे ग्रीष्मातपेऽपि वा। न चचाल ततः क्षिप्रं स राजा च ददर्श तम् ॥१३॥ तथा तस्य चिरं तत्र तिष्ठतः क्लेशवर्तिनः। न स राजा ददौ किञ्चिद्दातापि सकृपोऽपि सन् ॥१४॥ अथैकदा स नृपतिर्जगामासन्नकाटवीम्। स च तं लगुडं बिभ्रदन्वक्कार्पटिको ययौ ॥१५॥ तत्र तस्य ससैन्यस्य वाहनस्थस्य धन्विनः। व्याघ्रान्वराहान्हरिणान्बाणवर्षेण निघ्नतः ॥१६॥ अग्रत पादचारी सन्न कार्पटिक एककः। जघान लगुडेनैव वराहाम्हरिजान्वहून् ॥१७॥ स दृष्ट्वा विक्रमं तस्य चित्रं धूर्तः कियानयम्। इति दध्यौ स राजाऽन्तर्न त्वस्मै किञ्चिदप्यदात् ॥१८॥