कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 609, कुल 1079 में से
संदर्भ में पढ़ें१६२ कथासरित्सागर शिवं राज्ञोऽस्तु' चेत्युक्त्वा साध्वी तस्मिंश्चितानले। ज्वालाजटाले ऽपत्तच्छीतह्रदवलीलया ॥१६०॥ तत्स विक्रमत्तुङ्गश्च दृष्ट्वा गुप्तस्थितो नृपः। केनषामनृणोऽहं स्यामित्यासीद्विस्मयानमोहितः ॥१६१॥ ततो वीरवर सोऽपि धीरचेता व्यचिन्तयत्। सम्पन्नं स्वामिकार्यं मे साक्षाद्दिव्या हि वाक्श्रुता ॥१६२॥ मुक्तान्नपिण्डः संशुद्धः प्रभोस्तदधुना मया। सर्वमिष्टं व्ययीकृत्य भरणीयं कुटुम्बकम् ॥१६३॥ एकस्यात्मम्भरित्वेन न चकास्त्यथ जीवितम्। तस्मिं नारमोपहारणाप्यर्चयाम्यम्बिकामिमाम् ॥१६४॥ इति वीरवरः सत्त्वनिष्ठः सङ्कल्प्य चण्डिकाम्। देवीं तां वरदां पूर्वे स स्तोत्रेणोपतस्थिवान् ॥१६५॥ 'महेश्वरि नमस्तुभ्यं प्रणताभयदायिनि। संसारपङ्कमग्नं मां शरणागतमुद्धर ॥१६६॥ त्वं प्राणशक्तिर्भूतानां त्वयैव चेष्टत जगत्। सृष्टेरादौ स्वसम्भूता स्वयं दृष्टासि शम्भुना ॥१६७॥ ज्वलन्ती विश्वमुद्भास्य दुर्निरीक्ष्येण तेजसा। उच्चण्डदाण्डवालार्ककोटिपङ्क्तिरवोत्थिता ॥१६८॥ भुजानां चक्रवालेन सञ्छादितदिगन्तरा। खड्गखेटककोदण्डशरशूलादिधारिणा ॥१६९॥ संस्तुतासि च तेनैव देवेनेजं त्रिशूलिना। नमस्ते चण्डि चामुण्डे मङ्गले त्रिपुरे जय॥१७०॥ एकानंशे शिवे दुर्गे नारायणि सरस्वति। भद्रकालि महालक्ष्मि सिद्धे रुरुविनाशिनि ॥१७१॥ त्वं गायत्री महाराज्ञी रेवती विन्ध्यवासिनी। उमा कात्यायनी च त्वं सर्वपर्वतवासिनी ॥१७२॥ इत्यादिभिर्नामभिरम्बो दिवि स्तुतिपरं हरम्। श्रुत्वा स्वन्ते वणिष्ठश्च ब्रह्माद्याश्चापि तुष्टुवुः ॥१७३॥ स्तुवन्तरत्वां च भगवत्यमरा ऋषयो नराः। ईप्सितान्यपिकांश्चामाञ्छ्राज्याद्य प्राप्तुवन्ति च ॥१७४॥