कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 621, कुल 1079 में से
संदर्भ में पढ़ें५७४ कथासरित्सागर नरवाहनदत्तस्य नारिकेलद्वीपे गमनम् आरुह्य देवपुत्रैस्तैः साकं कृतनिमन्त्रणः । नारिकेलमगाद्दीपं देवेष्विव कृतस्पृहः ॥४९॥ तत्र तैरर्चितो रूपसिद्धिप्रभृतिभिः कृती । चतुर्भिर्दिव्यवपुषैः शक्रसारथिना युतः ॥५०॥ मनाग्वपुषमाधाय वन्दिवासांसिषु क्रमात् । अप्सरोभिः समं ताभिः स्वर्गस्याधिप्वरस्त सः ॥५१॥ मधुमासागमोत्फुल्लनानातस्रुवनासु च । विजहार तदुद्यानवनभूमिषु कौतुकी ॥५२॥ पश्यैतास्तरुमञ्जयः पृधुपुष्पविलोचने । कान्तं वसन्तमायान्तं पश्यन्तीव विकस्वरैः ॥५३॥ अस्मत्क्षेत्रेऽत्र मा भून्नः सन्तापोऽर्ककरोद्भवः । इतीवाच्छाद्यितुं पश्य फुल्लं सरसिजैः सरः ॥५४॥ पद्मोञ्ज्वलः कर्णिकारमुपेक्ष्यापि बिसौरभम् । विमुञ्चन्त्यन्यतो नीचं श्रीमन्तमिव साधवः ॥५५॥ पश्येह किन्नरीगीतैः कोकिलानां च कूजितैः । रुतैर्लीनां सङ्गीतमृतुराजस्य तन्यते ॥५६॥ इत्यादि देवपुत्रास्ते सुवाणास्तामदर्शयन् । नरवाहनदत्ताय तस्मै स्वापवनावलीम् ॥५७॥ तत्पुरेष्वपि चित्रीडं पश्यन् वत्सदेवरात्मजः । स वसन्तोत्सवोद्दामप्रनृत्यत्पौरचर्चरी ॥५८॥ बुभुजे सागरस्थस्य भागानपामराचितान् । सुकृती यत्र गच्छन्ति सत्रपामृतद्याऽमृतः ॥५९॥ एव स्थित्वा त्रिजतुगन्धिमान् देवपुत्रवान् । नरवाहनदत्तस्तान् सुहृदो निजगाद सः ॥६०॥ गच्छाम्यहं स्वनगरीं तातसन्दर्शनात्सुकः ॥ तद्यथ तां पुरीमेत्य श्रूवापयत पश्यतः ॥६१॥ तच्छ्रुत्वा तेऽब्रुवन् दृष्ट्वा मारुतस्या पुरो भवान् । विमर्त्यतुं प्राञ्जविद्यन स्मतस्यास्तु वय त्वया ॥६२॥