कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 623, कुल 1079 में से
संदर्भ में पढ़ें५७६ कथासरित्सागर इत्युक्त्वा प्रतिमुक्तस्तद्रुपनीतन्द्रसद्रथम् । नरवाहनदत्तोऽसौ मातलिं तमभाषत ॥६३॥ मत्र दिव्यसरस्तीरे स्थिता मे गोमुखादयः । तन् मार्गेण कौशाम्बीं पुरीं प्रापय मामिति ॥६४॥ ततस्तथति तनोक्तः साप्सरस्कः स तद्रथे । आरुह्य तत्सरः प्राप गोमुखादीन् ददर्श च ॥६५॥ आयातं स्वपथा शीघ्रं सर्वं वक्ष्यामि वो गृहे । इत्युक्त्वा तांश्च कौशाम्बीं ययौ शक्ररथेन सः ॥६६॥ तत्रावतीर्य नभसः पूजितं प्रेष्य मातलिम् । अप्सरोभिर्युतस्ताभिः स विवेश स्वमन्दिरम् ॥६७॥ स्थापयित्वा च तास्तत्र गत्वा वत्सेश्वरस्य सः । तदागमनहृष्टस्य ववन्दे चरणौ पितुः ॥६८॥ मातुर्वासवदत्तायाः पद्मावत्यास्तथैव च । अभ्यनन्दच्च तैश्चार्यं दर्शनातृप्तचक्षुषा ॥६९॥ तावच्च स रथासङ्गो गोमुखोऽत्र ससारथिः । प्रलम्बबाहुना सार्द्धं विप्रेण सममाययौ ॥७०॥ अथ स्थित मन्त्रिवर्गे पित्रा पृष्टः सादरं सः । नरवाहनदत्तस्तं स्ववृत्तान्तं महाद्भुतम् ॥७१॥ वदासि तस्य कस्याणमित्रप्रयोगमीश्वरः । इच्छत्यनुग्रहं यस्य कर्तुं सुकृतकर्मणः ॥७२॥ इति शंसत्सु सर्वेषु राजा वत्सेश्वरोऽथ सः । चकार तुष्टस्तनयस्यान्युतामुपहोत्सवम् ॥७३॥ ददर्श पादपतनायानीता गोमुखेन च । हरप्रसादरम्भास्ताः सदारोऽप्सरसः स्नुषाः ॥७४॥ देवरूपां देवरतिं देवमालां तथैव च । देवप्रियां चतुर्थी च चेटीभिः पृष्टनामकः ॥७५॥ क्वाहं क्व मय्यप्सरसो दिष्ट्याह राजसूनुना । नरवाहनदत्तेन भुवि स्वर्नागरी कृता ॥७६॥ इतीवावकिरन्ती सा सिन्दूरं विततोत्सवा । चञ्चद्रक्तपताकाभिः कौशाम्बी वदृशे तदा ॥७७॥