कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 671, कुल 1079 में से
संदर्भ में पढ़ेंहेरम्बश्वाससूतत्र धागमध्यं महाविषम्। तस्याजगरमत्युग्रं न स तेनाप्यकम्पत ॥१५९॥ ततो विनायकः साक्षाद्धन्ताघातानुरस्य सः। एत्य वातुं प्रवृते तस्याजय्यः सुरैरपि ॥१६०॥ मत्वा तं दुर्जयं देवं सोऽथ स्तुतिमिरचितुम्। राजा कनकवर्षस्तद्विषयोपचक्रमे ॥१६१॥ नमः सर्वार्थसंसिद्धिनिधिकुम्भोपमात्मने। लम्बोदराय विघ्नेश व्याघ्रात्तङ्करुणाय ते॥१६२॥ लीलोत्क्षिप्तकराघातविभुतासनरेणुजम् । ब्रह्माणमपि सोत्कम्पं कुर्वन्नजय गजानन ॥१६३॥ सुरासुरमुनीन्द्राणामपि सन्ति न सिद्धयः। अतुष्टे त्वयि लोकैकधुरन्ध्य शङ्करप्रिय ॥१६४॥ घटोदरः शूर्पकर्णो गणाध्यक्षो मदोत्कटः। पाशहस्तोऽम्बरीषश्च जम्भकस्त्रिशिखायुधः ॥१६५॥ एवमाद्यैः स्तुवन्ति स्म पापघ्नैराष्टषष्टिभिः। तत्सख्यस्थाननियतैर्नामभिस्त्वां सुरोत्तम ॥१६६॥ स्मरतः स्तुवतश्च त्वां विनश्यन्ति भयं प्रभो। रणराजकुलद्यूतघोराग्निश्वपदादिजम् ॥१६७॥ इति स्तुतिपदैरेतैरन्यैर्वहुविधैश्च सः। नृपः कनकवर्षस्तं विघ्नेश्वरमपूजयत् ॥१६८॥ तुष्टोऽस्मि न करिष्यामि विघ्नं ते पुत्रमाप्नुहि। इत्युक्त्वाऽन्तर्दधे तत्र राज्ञस्तस्य स विघ्नजित् ॥१६९॥ ततः स्वामिकुमारस्तं तदाराधारिणं नृपम्। उवाच धीरं तुष्टोऽस्मि तव याचस्व तद्वरम् ॥१७०॥ तच्छ्रुत्वा स प्रहृष्टस्तं देवं राजा व्यजिज्ञपत्। त्वत्प्रसादेन मे नाथ सूनुरुत्पद्यतामिति ॥१७१॥ एवमस्तु सुतो भावी भवतो मद्गुणांशभाक्। नाम्ना हिरण्यवर्षश्च भविष्यति स भूपते ॥१७२॥ इत्युक्त्वा गर्भगेहान्तः प्रवेशाय तमाह्वयत्। सविशेषप्रसादाप्तुमुपेतं बर्हिवाहनः ॥१७३॥