कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 759, कुल 1079 में से
संदर्भ में पढ़ें७१२ कथासरित्सागर पितुश्च क्षपितार्थं किं वक्ष्यस यास्यसि क्व वा। तदितोऽद्यापि निर्याहि कल्याणे चेन्मतिस्तव ॥११६॥ एतत्तस्य वचः सख्यूर्र्वधीर्यं वणिग्युवा। मासेनाप्यव्ययीचक्रे तत्र कोटित्रयं स तत् ॥११७॥ ततो हृतस्वो दत्तार्धचन्द्रः सुन्दरीगृहात्। तया मकरदंष्ट्राख्य कुट्टन्या निरकाश्यत ॥११८॥ अर्थदत्तादयस्तं च गत्वा स्वनगरं द्रुतम्। तत्पित्रे तत्समाचख्युर्यथावृत्तमशेषतः ॥११९॥ स तत्पिता रत्नवर्मा तद्बुद्ध्वा दुःखितो भृशम्। कुट्टनीं यमजिह्वां तां गत्वावोचद्वणिग्पतिः ॥१२०॥ गृहीत्वा मूल्यमीदृक् त्वया मे शिक्षितः सुतः। हृत मकरदंष्ट्रा यत्सर्वस्वं तस्य हर्म्यया ॥१२१॥ इत्युक्त्वा पुत्रवृत्तान्तं तस्यै स समवर्णयत्। ततः सा यमजिह्वां तं वृद्धकुट्टन्यभाषत ॥१२२॥ आनाययेह पुत्रं ते करिष्यामि तथा यथा। सम्या मकरदंष्ट्रास्तत्सर्वस्वं स हरिष्यति ॥१२३॥ एवं तया प्रतिज्ञाते कुट्टन्या यमजिह्वया। तदद्य शीघ्र मन्विष्य भूय्या गानपुरःसरम् ॥१२४॥ रत्नवर्मा ततस्तस्य पुत्रस्यानयनाय च। तन्मित्रमर्थदत्तं च प्रजिघाय हितैषिणम् ॥१२५॥ अर्थदत्त स गत्वा च तत्काञ्चनपुरं पुरम्। तस्मै शं शंस सन्देशं शसदेवरवर्मणः ॥१२६॥ पुनरत्र धात्रवीमित्र माकार्षीस्त्वं बथा हि मे। तदद्य वेदषामद्भावो दृष्ट प्रत्यक्षासत्प्रथया ॥१२७॥ अथधन्तस्खया प्राप्ता दृष्ट्वा ततोऽपिऽऽवदम्। कः प्राज्ञा बाञ्छतिरतन् वश्यासु गिरसासु च ॥१२८॥ विमुच्यते वा भवता वग्गुपमौन्यमीदृशः। तावद्विगन्धो धीरदप नरो भागी शुभस्य च ॥१२९॥ यावन्नमति नेत्राण रामाविभ्रमभूमिषु। तदागच्छ पितुः पार्श्वं मय्यूप्रतिश्रोति कुरु ॥१३०॥