कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 777, कुल 1079 में से
संदर्भ में पढ़ें३० कथासरित्सागर दुःशीलादेवदासयोः कथा कुटुम्बी देवदासाख्या ग्रामे स ह्यभवत् पुरा। दुःशीलेति च तस्यासीन्नाम्नान्वर्थेन गेहिनी ॥६८॥ सा चान्यपुरुषासक्तां विविदुः प्रातिवेशिकाः। एकदा देवदासोऽसौ कार्याद्राजकुलं ययौ ॥६९॥ आनीय सा च तत्काल, तद्भार्या तद्गृहेषिणी । गृहस्योपरिभूमौ तं निक्षिप परपूरुषम् ॥७०॥ आगतं च ततस्तं सा देवदास निजं पतिम्। निशीथे तेन जारेण मुक्तसुप्तमघातयत् ॥७१॥ विसृज्योपपतिं तं च स्थित्वा तूष्णीं निशार्धयम् । निर्गत्य चक्रन्द हतो भर्त्ता मे तस्करैरिति ॥७२॥ ततोऽत्र बान्धवोऽभ्येत्य दृष्ट्वावोधमयं यया। चौरैर्हंत कथं नीतं न कञ्चिदपि चेरिति ॥७३॥ इत्युक्त्वात्र स्थितं बाल पप्रच्छुस्ते तदात्मजम् । तातो हतस्त्व केनेति ततः स स्पष्टमब्रवीत् ॥७४॥ पृष्ठभूमाविहाद्यस्म कोऽप्यासीद्दिवसे युवा। रात्रौ तेनावतीर्यैव तातो मे पश्यतो हतः ॥७५॥ अम्बा तु मां गृहीत्वादौ तातपार्श्वादिवोत्थिता । इत्युक्ते शिशुना बुद्धवा भार्या जारेण स हतम् ॥७६॥ जघ्नुस्तं च गवेष्याशु तज्जारं च तदत्र ते । स्वीकृत्य सं शिशुं तां च दुःशीलां निरवासयत् ॥७७॥ इत्यन्यरक्तचित्ता स्त्री भुजङ्गी हन्त्यसंशयम्। एव हरिशिखनोक्ते चमाये गोमुखः पुनः ॥७८॥ किमन्येनेह मद्भुतं वज्रसारस्य सम्प्रति । वत्सेश सेवकस्येह हास्यं तच्छ्रूयतामिदम् ॥७९॥ वज्रसारस्य तत्प्रियस्यच कथा तस्य शूरस्य कान्तस्य सुरूपा मालवोद्भवा । वज्रसारस्य भार्याभूत् स्वशरीराधिकप्रिया ॥८०॥