भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 905, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 905

[८५६] कथासरित्सागर

तदुलूको दिवाभोज्यः क्षुद्रो राज्यं कुतोऽर्हति । क्षुद्रश्च स्यादविश्वास्यस्तत्र चैतां कथां शृणु ॥४६॥ शशकपिञ्जलकथा¹ कदाचित् क्वापि वृक्षऽद्रुमवस तत्र चाप्यथ । पक्षी कपिञ्जलो नाम वसति स्म कृतालयः ॥४७॥ स कदाचिद् गत क्वापि यावन्न दिवसान् बहून् । आयाति तावत्तन्नीडं ततस्त्यः शशकोऽवसत् ॥४८॥ दिने कपिञ्जलोऽत्रागात् ततोऽस्य शशकस्य च । नीडो मे तव नेत्येव विवाद उदभूद्द्वयोः ॥४९॥ निर्णेतारं ततः सम्यगन्वेष्टुं प्रस्थितावुभौ । तावहं कौतुकाद् द्रष्टुमन्वगच्छमलक्षितः ॥५०॥ गत्वा स्तोकं सरस्तीरेऽहिंसाधृतमृषाव्रतम् । ध्यानाधोमीलितदृशं मार्जारं तावपश्यताम् ॥५१॥ एतमेव च पृच्छाव किं न्यायमिह धार्मिकम् । इत्युक्त्वा तौ बिडालं तमुपेत्यैवमवोचताम् ॥५२॥ शृणु नौ भगवन्न्यायं तपस्वी त्वं हि धार्मिकः । श्रुत्वैतदल्पया वाचा बिडालस्तौ जगाद सः ॥५३॥ न शृणोमि तपः क्षामो दूरादायात मेऽन्तिकम् । धर्मो ह्यसम्यङ् निर्णीतो निहन्त्युभयलोकयोः ॥५४॥ इत्युक्त्वाश्वास्य तावप्रमानीय स बिडालकः । उभावप्यवधीत्क्षुद्रः साकं शशकपिञ्जलौ ॥५५॥ तदेवं नास्ति विश्वासः क्षुद्रकर्मणि दुर्जने । [L23: तस्मादुलूको राज्याय न कर्त्तव्योऽतिदुर्जनः ॥५६॥ इत्युक्ताः पक्षिणस्तेन वायसेन तथेति ते । अभिषेकमुलूकस्य निवार्यैतस्ततो ययुः ॥५७॥ अद्यप्रभृति यूयं च वयं चाप्योन्यशत्रवः । स्मर यामीत्युलूकस्तं काकमुक्त्वा क्रुधा ययौ ॥५८॥


१ क्षुद्रमर्थपतिं प्राप्य व्यापारवधतत्परौ । उभावपि क्षयं प्राप्तौ पुरा शशकपिञ्जलौ ॥ पञ्चतन्त्रे—