कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 921, कुल 1079 में से
संदर्भ में पढ़ें८७२ कथासरित्सागर ततस्तं वाहनसुखैरावश्यं सन्निधौभृतम्। कृत्वावसन्नमात्मानमुवाच स सकेतवम् ॥१५८॥ आहारं विना देव न गन्तुमहमुत्सहे। तन्मे दशाशनं भृत्याद्देववृत्तितस्तत् कथम् ॥१५९॥ तच्छ्रुत्वा भेकराजस्तमवाचद्वाहनप्रियः। काञ्चित् परिमितांस्तर्हि भुङ्क्ष्व मदनुचरानिति ॥१६०॥ ततः क्रमात् स मण्डूकानहिः स्वेच्छमभक्षयत्। सद्वाहनाभिमानाच्च सेहे भेकपतिः स तत् ॥१६१॥ एवं मध्यप्रविष्टेन मूर्खः प्राज्ञेन वञ्च्यते। मयाप्यनुप्रविश्यैव तव स्वद्विषवो हताः ॥१६२॥ तस्मान्नीतिविदा राज्ञा भवितव्यं कृतात्मना। यथैष मुच्यते मृत्योर्ह्रियते च परर्द्धयः ॥१६३॥ श्रीरियं च सदा देव द्यूतलीलेव सञ्चला। वारिणीवोर्मिचपला मदिरेव विमोहिनी ॥१६४॥ सा धीरस्य सुमन्त्रस्य राज्ञो निर्व्यसनस्य च। विशेषज्ञस्य सोत्साहा पार्श्वतश्चैव तिष्ठति ॥१६५॥ तदिदानीमवहितस्त्वं विद्वद्वचने स्थितः। निहतारातिसुस्थितः पाथि राज्यमकण्टकम् ॥१६६॥ इत्युक्तो मन्त्रिणा मेघवर्णः स चिरजीविना। सम्भाव्य तं काकराजश्चक्रे राज्यं तथैव तम् ॥१६७॥ इत्युक्त्वा गोमुखो भूयो वत्सराजसुतमब्रवीत्। तदेवं प्रज्ञया राज्यं तिर्यग्भिरपि भुज्यते ॥१६८॥ निष्प्रज्ञास्त्ववसीदन्ति काकोपहसिताः सदा। तथा च जाह्नवीभृत्या बभूवाश्वस्य कस्यचित् ॥१६९॥ साऽजानन्नपि तस्याज्ञां जानामीत्यभिमानतः। स्फारं कुर्वन् मौर्व्याबलात्प्रभोस्त्वचमपाटयत् ॥१७०॥ ततस्त्वेनं परित्यक्तं स्वामिभाववशाद सः। अजानानॊ ह्यतत्कुर्वन् प्राप्तमानी विनश्यति ॥१७१॥ इतश्च श्रूयतामन्यत् मासन्वै भ्रातरावुभौ। विप्रावभूतानामद्वय तयोः पित्र्यमभूद्धनम् ॥१७२॥