भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 925, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 925

८७६ कथासरित्सागर सुवर्णमुग्धकथा अथ सुवर्णमुग्धस्य देवेदानीं निशम्यताम्। पुमान् कश्चिज्जल पातुं तडागमगमद्युवा ॥१८७॥ स जलोकोकहस्तस्य स्वर्णचूडस्य पक्षिणः। सुवर्णवर्णं तत्राम्भस्यपश्यत्प्रतिबिम्बकम् ॥१८८॥ सुवर्णमिति मत्वा तद्ग्रहीतुं प्रविवेश खम्। तडागं न च तत्राप दृष्टनष्टं चले जले ॥१८९॥ आरुह्यारुह्य च जले स तत्पश्यन् प्रविश्य तत्। पुनः पुनस्तडागाम्भो जिघृक्षुर्नाप किञ्चन ॥१९०॥ पित्रा च स्वेन दृष्टोऽथ पृष्टो निन्ये गृहं च सः। तां दृष्ट्वा प्रतिमां तोये खगं विद्राव्य बोधितः ॥१९१॥ निर्विमर्शा मृषाज्ञानैर्मुह्यन्त्येवमबुद्धयः। उपहास्याः परेषां च क्षोभ्याः स्वेषां भवन्ति च ॥१९२॥ मूर्खसेवकानां कथा अथ चान्यो महामूर्खवृत्तान्तोऽत्र निशम्यताम्। कस्याप्युष्ट्रोऽवसन्नोऽभूद्भारेण वणिजोऽध्वनि ॥१९३॥ स भृत्यानब्रवीत् कश्चिदुष्ट्रं गत्वान्यमानये। श्रित्त्वाधं योऽस्य करभस्याधं भारादितो हरेत् ॥१९४॥ मद्यागमं यथा वस्त्रपेटास्वेतासु न स्पृशेत्। अम्भश्चर्माणि युष्माभिस्तथा कार्यमिह स्थितैः ॥१९५॥ इत्युष्ट्रपार्श्वेऽवस्थाप्य भृत्यांस्तस्मिंस्ततो गते। वणिज्यकस्मादुन्नम्य प्रारेभे वर्षितुं घनः ॥१९६॥ तथा कार्यं यथा माम्भः पेटाश्चर्माणि संस्पृशेत्। इति न स्वामिना प्रोक्तमित्यालोच्याथ ते जडाः ॥१९७॥ कृष्ट्वा वस्त्राणि पेटाभ्यस्तैस्ते तान्यन्ववेष्टयन्। चर्माणि तेन वस्त्राणि विनेशुस्तेन वारिणा ॥१९८॥ पापा विमग्ने सकलो वस्त्रौघो नाशितोऽम्भसा। इत्यागतोऽथ स वणिक्क्रुद्धो भृत्यानभाषत ॥१९९॥ स्वयंवोदिष्टमुदकात् पेटाचर्माभिरक्षणम्। दोषस्तत्र च कोऽस्माकमिति तैऽपि तमभ्यधुः ॥२००॥