किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 100, कुल 707 में से
संदर्भ में पढ़ें| ७० | किरातार्जुनीयम् | [प्रथमः |
|---|
इतिशब्दः परिसमाप्तौ । भारविकृताविति कविनामाकथनम् । महाकाव्य इति महच्छब्देन लक्षणसम्पत्तिः सूचिता । किरातार्जुनीयः इति काव्यवर्णनीययोः कथनम् ।
प्रथमः सर्गः समाप्त इति शेषः। एवमुत्तरत्रापि द्रष्टव्यम् । किराताजुनावधिकृत्य कृतोग्रन्थः किरातार्जुनीयम् । 'शिशुक्रन्दयमसभाद्वन्द्वेन्द्रजननादिभ्यश्छः' इति द्वन्द्वाच्छ-प्रत्ययः। राघवपाण्डवीयमितिवत् । तथा ह्यर्जुन एवात्र नायकः। किरातास्तु तदुत्कर्षाय प्रतिभटतया वर्णितः। यथाह दण्डी 'वंशवीर्यप्रतापादि वर्णयित्वा रिपोरपि तज्जयान्नय-कोत्कर्ष कथनं च धिनोति नः' इति । अथात्र सङ्ग्रहः। 'नेतामध्यमपाण्डवो भगवतो नारायणस्यांशजस्तस्योत्कर्षकृते त्ववर्णयततरां दिव्यः किरातः पुनः। शृङ्गारादिरसोऽङ्गमत्र विजयी वीरः प्रधानो रसः शैलाद्यानि च वर्णितानि बहुशो दिव्यास्त्रलाभः। फलम्' इति ।।४६।।
इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीय काव्य-व्याख्यायां घण्टापथसमाख्यायां प्रथमः सर्गः समाप्तः॥१॥
अन्वयः-लक्ष्मी (कर्त्री) विधिसमयनियोगात् दीप्तिसंहारजिह्मम्, शिथिलवसुम्, अगाधे, आपत्पयोधौ, मग्नम्, दिनादौ रिपुतिमिरम्, उदस्य उदीयमानं, दिनकृतम्, इव, त्वाम्, भूयः समभ्येतु ।।४६।।
सुधा-लक्ष्मीः = राजलक्ष्मीः, पक्षान्तरे, तेजः श्री विधिसमयनियोगात् = दैवकालानुरोधात् दुर्भाग्यदुःसमयप्रभावादित्यर्थः। वा दैवसमयानतिक्रमणात्, दीप्तिसंहारजिह्मम्=कान्तिहानिखिन्नम् पक्षान्तरे तेजोविनाशशिथिलम् । शिथिलवसुम्=मन्दतेजसम् । पक्षान्तरे क्षीणधनम्, अगाधे=अतलस्पर्शे, दुस्तरे इत्यर्थः। पक्षान्तरे अपरिमेये, आपत्पयोधौ = विपत्समुदे, पक्षान्तरे विपद्रूपकेऽर्णवे, मग्नम् = निमज्जमानम् दिनादौ = प्रभाते, पक्षान्तरे शुभसमयसमागमे, रिपुतिमिरम् = वैरीरूपान्धकारम्, उदस्य = निरस्य, संहृत्येत्यर्थः। उदीयमानम् = उद्यन्तम्, पक्षान्तरे उन्नत्यभिमुख- गमनशीलम् दिनकृतम् = सूर्यम्, इव त्वाम् = भवन्तम् युधिष्ठिरम्, भूयः = पुनः, समभ्येतु = भजतु, गच्छतु इति भावः॥४६॥
समासः--विधिश्च समयश्च विधिसमयौ, तयोः विधिसमयोनियोगः, विधिसमयनियोगस्तस्माद्विधिसमयनियोगात् । वा विधेः समयः (सिद्धान्तः) विधिसमयस्तस्य नियोगस्तस्मात् । दीप्तेः संहारो दीप्तिसंहारस्तेन जिह्म इति दीप्तिसंहारजिह्मस्तं दीप्तिसंहारजिह्मम् । शिथिलं वसु यस्य सः शिथिलवसुस्तं शिथिलवसुम् । आपत्