भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 99, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 99

सर्गः १ ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ६१

हन्तुं यतते। एवम्भूते शत्रौ कालप्रतीक्षाकरणं महदनुचितम्, यदि कोऽपि दुर्बलो वैरिकृतापराधप्रतीकारेक्षमः शत्रुत: शङ्कितो भवेत् तस्योचितमेव, भवन्तस्तु तत्प्रतीकारकरणसमर्थाः सन्ति । ईदृशदशायां कपटिषु वैरिषु कपटमेव विधाय सहसा सन्धिर्भेद्व्यः। 'शठे शाठ्यं समाचरेत्' ॥४५॥

**भाषार्थः—**सदा कपट (दगा) करने वाले दुश्मनों से समय की प्रतीक्षा करते रहना ठीक नहीं; क्योंकि जय की इच्छा रखने वाले राजा लोग छल से दुश्मनों की सन्धि तोड़कर सत्यानाश करते हैं। आप तो निश्चिन्त हैं, यह ठीक नहीं है ॥४५॥

उक्तमर्थमाशीर्वादपूर्वकमुपसंहरति—

विधिसमयनियोगाद्दीप्तिसंहारजिह्मं शिथिलवसुमगाधे मग्नमापत्पयोधौ। रिपुतिमिरमुदस्योदीयमानंदिनादौ दिनकृत मिव लक्ष्मीस्त्वां समभ्येतु भूयः ॥

इति भारविकृतौ महाकाव्ये किरातार्जुनीये प्रथम सर्गः ॥१॥

**--**

विधीति । विधिर्दैवम् । 'विधिर्विधाने दैवेच' इत्यमरः। समयः कालस्तयोर्नि- योगात्रियमनाद्धेतोः। तयोर्दुरतिक्रमत्वादिति भावः। अगाधे दुस्तरे । आपत्पयोधिरिवेत्यु- पमितसमासः। दिनकृतमिवेति । वक्ष्यमाणानुसारात्तस्मिन्नापत्पयोधौ भग्नम्। सूर्योऽपि सायं सागरे मज्जति परेद्युरुन्मज्जतीत्यागमः। दीप्तिः प्रताप आतपश्च तस्याः संहारेण जिह्ममप्रसन्नम् । शिथिलवसुं शिथिलधनमन्यत्र शिथिलरश्मिम् । 'वसुर्देवेऽग्रौ रश्मौ न वसु तोये धने मणौ' इति वैजयन्ती । 'शिथिलबलम्' इति पाठे तूभयत्रापि शिथिल- शक्तिकमित्यर्थः। रिपुस्तिमिरमिवेति रिपुतिमिरमुदस्य निरस्योदीयमानमुद्यन्तम् । 'इण् गतौ' इति धातो दैवादिकात्कर्तरिशानच् । त्वां दिनादौ दिनकृतमिव लक्ष्मीर्भूयः समभ्येतु भजतु । 'आशिषि लिङ्लोटौ' इति लाट् । चमत्कारकारितया मङ्गलाचरण- रूपतया च सर्गान्त्यश्लोकेषु लक्ष्मीशब्दप्रयोगः। यथाह—

भगवान्भाष्यकारः—'मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते वीरपुरुषकाण्यायुष्मत्पुरुषकाणि च भवन्त्यध्येतारश्च प्रवक्तारो भवन्ति' इति पूर्णोपमेयम् । मालिनी वृत्तम् । सर्गान्तत्वाद्वृत्तभेदः। यथाह दण्डी 'सर्गैरनतिविस्तीर्णैः श्रव्यवृत्तैः सुसन्धिभिः । सर्वत्र भिन्नवृत्तान्तरुपेतं लोकरञ्जनम् ॥' इति ।

अथ कविः काव्यवर्णनीयाख्यानपूर्वकं सर्गपरिसमाप्तिं कथयति-इतीत्यादि ।