किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 98, कुल 707 में से
संदर्भ में पढ़ें| ६८ | किरातार्जुनीयम् | [प्रथमः |
|---|
नेति। परेषु शत्रुशु। निकृतिः परं प्रधानं येषु तेषु तथोक्तेष्वपकारतत्परेषु सत्सु भूरिधाम्नो महौजसः प्रतीकारक्षमस्य ते तव समयस्त्रयोदशसंवत्सरान् वने वत्स्या- मीत्येवंरूपा संवित्। 'समयाः' शपथाचारकालसिद्धान्तसंविदः' इत्यमरः। तस्य परिरक्षणं प्रतीक्षणं न क्षमं युक्तम्। 'युक्तं क्षमं शक्ते हिते त्रिषु' इत्यमरः। हि यस्माद्विजयार्थिनो विजिगीषवः क्षितीशा अरिषु विषये सोपधि सकपटं यथा तथा। कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे' इत्यमरः। सन्धिदूषणानि विदधति। केनचिद्व्याजेन दोषमापाद्य सन्धि दूषयन्ति। विघटयन्तीत्यर्थः। शक्तस्य हि विजिगीषोः सर्वथा कार्यसाधनं प्रधानमन्यत्समयरक्षणादिकमशक्तस्येति भावः। अर्थान्तरन्यासोऽलङ्कारः। पुष्पिताग्रा वृत्तम्॥४५॥
अन्वयः-निकृतिपरेषु, परेषु भूरिधाम्नः ते समयपरिरक्षणं न, क्षमम्। हि विजयार्थिनः, क्षितीशाः, अरिषुः, सोपधि, सन्धिदूषणानि, विदधति ॥४५॥
सुधा-निकृतिपरेषु = निराकरणतत्परेषु, अपकारकेष्वित्यर्थः। परेषु = शत्रुपु, भूरिधाम्नः = बहुतेजसः, ते = तव, युधिष्ठिरस्येत्यर्थः। समयपरिरक्षणं = कालप्र- तीक्षाकरणम्, त्रयोदशवर्षाणि घने वत्स्यामीत्येवं रूपमित्यर्थः। न = नहि, क्षमम् = युक्तम्, नोचितमित्यर्थः। हि = यतः, यस्मात्, विजयार्थिनः = शत्रुपरजयकार्मुकाः, क्षितीशाः मेदिनीपतयः, राजान इत्यर्थः। अरिषु = शत्रुपु, सोपधि = सव्याजम्, छलेन सहितमिति यावत्; सन्धिदूषणानि = मैत्रीच्छिद्राणि, विदधति = कुर्वन्ति, केनापि कपटेन सन्धि भेदयन्तीति भावः॥४५॥
समासः-निकृतिः परं येषां ते निकृतिपराः, तेषुः निकृतिपरेषु। भूरि धाम यस्य तस्य भूरिधाम्नः। समयस्य परिरक्षणं समयपरिरक्षणम्। विजयस्यार्थः प्रयोजनं अस्त्येषां ते विजयार्थिनः क्षितेःईशाः क्षितीशाः। सन्धेर्दूषणानि सन्धिदूषणानि, तानि ॥४५॥
व्याकरणम्-विदधति=वि+धा+लट्+झि ॥४५॥
वाच्यान्तरम्-निकृतिपरेषु परेषु भूरिधाम्नः ते तव समयपरिरक्षणेन नहि क्षमेण भूयते। हि विजयार्थिभिः क्षितीशैररिषु सोपधि सन्धिदूषणानि विधीयन्ते ॥४५॥
कोषः-'कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे।' 'कुसृतिर्निकृतिः शाठ्यम्' इति चामरः। 'युक्तंक्षमं शक्ते हिते त्रिषु' इत्यमरः। 'समयाः शपथाचारकाल सिद्धान्तसंविदः' इत्यमरः। 'पुरुहू पुरू भूयिष्ठं स्फारं भूयश्च भूरि च' इत्यमरः॥४५॥
सारार्थः-द्यूतपराजितस्य भवतः त्रयोदशवर्षात्मके काले वने निवासस्तदैवोचितो, यदि स दुर्योधनो न्यायवेता, परन्तु स च महान् कपटपटुः, सततं भवतां छिद्रमन्विष्यन्