किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 130, कुल 707 में से
संदर्भ में पढ़ेंकिरातार्जुनीयम् [ द्वितीय
समान आक्रमण योग्य नहीं, ऐसे इन्द्र के समान पराक्रम वाले आपके भाइयों से दुश्मनों के पक्ष में कौन है ? जो ठहर कर क्षण भर युद्ध करे ॥ २३ ॥
आशीर्वादव्याजेन फलितमाह—
ज्वलतस्तव जातवेदसः सततं वैरिकृतस्य चेतसि।
विदधातु शमं शिवेतरा रिपुनारीनयनाम्बुसन्ततिः ॥ २४ ॥
ज्वलत इति । तव चेतसि सततं ज्वलतो वैरिकृतस्य जातवेदसः । क्रोधाग्नेरित्यर्थः शिवेतराऽशिवाऽमङ्गला । वैधव्यदुःखजनकत्वादिति भावः । रिपुनारीनयनाम्बुसन्ततिर्वैरिवनिताऽश्रुप्रवाहः शमं विदधातु । वैरिकृतस्य क्रोधस्य वैरिवधमन्तरेण शान्त्यसम्भवादवश्यं तद्वधस्त्वया कर्तव्य इत्यर्थः । क्रोधस्य विषयस्य निगरणेन विषयिणो जातवेदस एवोपनिबन्धादतिशयोक्तिरलङ्कारः । तदुक्तम्—'विषयस्यानुपादानाद्विषय्युपनिबध्यते । यत्र सातिशयोक्तिः स्यात्कवेः प्रौढोक्तिजीविता ॥' इति । तत्रापि क्रोधस्य जातवेदसो भेदेऽप्यभेदाध्यवसायादभेदेऽभेदरूपा । सा एवाम्बुनिर्वाप्यत्वोक्तिश्च घटते । तथा च तथाम्बुसेकेनाग्निः शाम्यति तथा शत्रुवधेन क्रोध इत्यौपम्यं गम्यते ॥ २४ ॥
**अन्वयः—**शिवेतरा, रिपुनारीनयनाम्बुसन्ततिः, तव; चेतसि सततं, वैरिकृतस्य, ज्वलतः, जातवेदसः शमं विदधातु ॥ २४ ॥
**सुधा—**शिवेतरा = अमङ्गला, अभद्रेति यावत्, वैधव्यक्लेशेत्पन्नत्वादिति भावः । रिपुनारीनयनाम्बुसन्ततिः = शत्रुस्त्रीनेत्राश्रुधारा (कर्त्री), तव = युधिष्ठिरस्येत्यर्थः । चेतसि = मनसि, सततम् = अनिशम्, नित्यमिति यावत् । वैरिकृतस्य = शत्रुप्रयुक्तस्य ज्वलतः = प्रदीप्तस्य, उच्छिखस्येत्यर्थः । जातवेदसः = अग्नेः, शत्रुविहितमहापराधजनितदुःखाग्निज्वलाया इति भावः । शमम् = उपशान्तिम्, विदधातु = करोतु । अग्निर्गलधारायाः पातेन शाम्यति, तथैव तव दुःखाग्निरपि वैरिरमणीवैधव्यजनिताश्रुधारया शाम्यतु इति भावः ॥ २४ ॥
**समासः—**वैरिणा कृतयः वैरिकृतः तस्य वैरिकृतस्य । शिवादितरा शिवेतरा । नयनानामम्बूनि, तेषां सन्ततिः, नयनाम्बुसन्ततिः । रिपूणां नार्यः रिपुनार्यस्तासां नयनाम्बुसन्ततिरिति रिपुनारीनयनाम्बुसन्ततिः ॥ २४ ॥
**व्याकरणम्—**ज्वलतः = ज्वल् + शतृ । विदधातु = वि + धा + लोट् ॥ २४ ॥
**वाच्यान्तरम्—**शिवेतरया रिपुनारीनयनाम्बुसन्तत्या तव चेतसि सततं ज्वलतः वैरिकृतस्य जातवेदसः शमः विधीयताम् ॥ २४ ॥
कोषः—'शुचीटयोनिर्ज्वलनो जातवेदास्तनू्नपात्,' इत्यमरः । 'सततानावरताश्रान्तसन्तताविरतानिशम्' इत्यमरः । 'चित्ते तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः । 'शमयस्तु शमः शान्तिः' इत्यमरः ॥ २४ ॥