भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 144, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 144
१०६किरातार्जुनीयम् ।[ द्वितीय.

अन्वयः—उदेतुम्, इच्छता, (जनेन) पुरः, धिया, रोषमयं तिमिरम्, अपनेयम् । अंशुमता, अपि प्रभया, निशाकृतं, तमः, अविभिद्य, न उदीयते ॥ ३६ ॥

सुधा—उदेतुम्=उदयं प्राप्तुम्, अभ्युदयलाभार्थमित्यर्थः। इच्छता=वाञ्छता। जनेनेति शेषः । पुरः=प्रथमम्, धिया=बुद्ध्या, विवेकवत्येति शेषः। रोषमयम्=क्रोधरूपम्। तिमिरम् = तमः मोहमित्यर्थः । अपनेयम्=अपहर्त्तव्यम्, दूरीकार्यमिति यावत् । यथा अंशुमता=सूर्येण, अपि, प्रभया=कान्त्या, तेजसा इत्यर्थः । निशाकृतम्=रात्रिजनितम्; तमः = अन्धकारम्, अविभिद्य=अदूरीकृत्य, अविनाशयेति यावत् । न = नहि, उदीयते = उदयः प्राप्यते । तर्हि, का कथाऽन्येषां तेजस्विनामपीति ॥ ३६ ॥

समासः—निशया कृतं निशाकृतम् ॥ ३६ ॥

व्याकरणम्—अपनेयम् = अप + नी + यत् । अविभिद्य = नञ् + वि + भिद् + क्त्वा + ल्यप् । उदीयते = उत् + इण् + लट् ॥ ३६ ॥

वाच्यान्तरम्—उदेतुमिच्छन् (राजा) पुरः, धिया रोषमयं तिमिरम्, अपनयेत् । अंशुमानपि प्रभया निशाकृतं तमोऽविभिद्य नोदेति ॥ ३६ ॥

कोषः—'अन्धकारोऽस्त्रियां ध्वान्तं तिमिस्रं तिमिरं तमः' इत्यमरः । 'कोपक्रोधामर्षरोषप्रतिघा रुट्क्रुधौ स्त्रियौ' इत्यमरः, 'स्यात्पुरः पुरतोऽग्रतः' इत्यमरः । 'निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा' इत्यमरः । 'अंशुमान् सविता सूर्यो मार्त्तण्डो मिहिरो रविः' इत्यन्यकोषः ॥ ३६ ॥

सारार्थः—इह जगति यः किल स्वाभ्युदयमिच्छेत्, स तु पूर्वं समुन्नतिबाधकं क्रोधं परित्यज्य यत्नान्तरं कुर्यात्। यथा तेजस्विनां धुरीणोऽपि सूर्यो यावद्रात्रिजमन्धकारं न नाशयति तावन्नोदेतीति । अतो भवान् क्रोधं त्यजतु, ततः कार्यसिद्धिर्भविष्यतीति भीमं प्रति युधिष्ठिरोक्तिः ॥ ३६ ॥

भाषार्थः—उन्नति (तरक्की) चाहनेवालों को चाहिए कि पहले (शुरू में) अपने गुस्से को रोकें। क्योंकि सूर्य भी जब तक रात में जमे हुए अन्धकार को अपनी किरणों से नाश नहीं कर लेते; तब तक उदय नहीं होते। अन्धकार को नाश करने के बाद में उदित होते हैं ॥ ३६ ॥

ननु दुर्बलस्यैवमस्तुक्रोधादेव कार्यसिद्धिरित्यत आह—

बलवानपि कोपजन्मनस्तमसो नाभिभवं रुणद्धि यः।
क्षयपक्ष इवैन्दवीः कलाः सकला हन्ति स शक्तिसम्पदः ॥३७॥

बलवानिति । बलवान्शूरोऽपि यः कोपाज्जन्म यस्य तस्य कोपजन्मनः । 'अवश्यो बहुव्रीहिर्व्यधिकरणो जन्माद्युत्तरपदः' इति वामनः' । तमस्रो मोहस्य । कृद्योगलक्ष्कर्तरि षष्ठी । अभिभवमाक्रामति न रुणद्धि न निवारयति । स नृपः क्षयस्य पक्ष क्षयपक्षः