किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 148, कुल 707 में से
संदर्भ में पढ़ें११० किरातार्जुनीयम् [ द्वितीयः
किमिति। उपात्तरंहसः प्राप्तत्वरस्य मनसः। समयोऽस्य प्राप्तः सामयिकः। 'समयस्तदस्य प्राप्तम्' इति ठञ्। स न भवतीत्यसामयिकस्तमप्राप्तकालं क्षोभं वितन्वता भवता धीरतया धैर्यगुणेन। 'मनसो निर्विकारत्वं धैर्यं सत्स्वपि हेतुषु' इति रसिकाः। अधरीकृतस्तिरस्कृतः। प्रागिति शेषः। अपां पतिः समुद्रः किं किम- र्थमुच्चैरधिकः क्रियते। न पराजितं पुनरुच्चकैः कुर्यादिति भावः। अत्र वितन्वतेति भीमविशेषणत्वेन अपांपतिपदार्थस्योच्चैःकरणे हेतुत्वोक्त्या काव्यलिङ्गमलङ्कारः ॥४०
अन्वयः—उपात्तरंहसः मनसः असामयिकं क्षोभं, वितन्वता, भवता, धीरतया, अधरीकृतः, अपां, पतिः, किम्, उच्चकैः क्रियते ॥ ४० ॥
सुधा—उपात्तरंहसः = प्राप्तवेगस्य, सदैव चञ्चलस्येत्यर्थः। मनसः = चित्तस्य, असामयिकम् = अकालिकम्, अनवसरजमिति यावत्। क्षोभम् = विकारम्, चाञ्च- ल्यादिकम्, वितन्वता = प्रकटयता, भवता = त्वया, भीमेनेत्यर्थः। धीरतया = धैर्येण, अधरीकृतः = तिरस्कृतः, लघूकृत इत्यर्थः। अपाम् = जलानां, पतिः = स्वामी समुद्र इत्यर्थः। किम् = कथम्, कस्मात्कारणादित्यर्थः। उच्चकैः = उन्नतैः, अधिक क्रियते = विधीयते ॥ ४० ॥
समासः—समये भवः सामयिकः न सामयिकोऽसामयिकस्तम सामयिकम्। उपात्तं रंहो येन तस्य उपात्तरंहसः। धीरस्य भावः धीरता, तया धीरतया ॥४०॥ व्याकरणम्—वितन्वता = वि + तनु + शतृ। क्रियते + कृ + लट् ॥ ४० ॥ वाच्यान्तरम्—उपात्तरंहसो मनसोऽसामयिकं क्षोभं वितन्वन् भवान्, धीरतया अधरीकृतम्, अपां पतिम्, किमुच्चकैः करोति ॥ ४० ॥ कोषः—'रंहस्तरसी तु रयः स्यदः' इत्यमरः ॥ ४० ॥
सारार्थः—प्रथमस्तु धैर्यवतां धुरीणः पाथोधिरेव विजयते जगति, यः किल जगत्प्लाषकानामपि सर्वं जलप्रवाहं स्वान्तः संरुद्ध्यापि स्वतटमर्यादोल्लङ्घनं न करोति। परन्तु नानाविधेषूपस्थितेषु धैर्यध्वंसकेषु दुःखेष्वपि यस्त्वं धैर्यं न त्यक्तवान्, तेन 'समुद्रादप्यधिकधैर्यवान् भीमः' इति ख्यातिर्जनतायामजनि, साऽधुना कथमकालिकं मनोवेगमवाप्य त्वया विपरीता क्रियते इति ॥ ४० ॥
भाषार्थः अत्यन्त वेगवान् मन के विकार को दिखाता हुआ तुम अपने संतोष तथा धैर्य से नीच बनाये समुद्र को अब क्यों बड़ा बनाते हो ॥ ४० ॥
श्रुतमप्यधिगम्य ये रिपून् विनियन्ते न शरीरजन्मनः । जनयन्त्यचिराय सम्पदामयशस्ते खलु चापलाश्रयम् ॥ ४१ ॥
श्रुतमिति। किञ्च ये श्रुतं शास्त्रमधिगम्यापि शरीरजन्मनः शरीरप्रभवान् रिपून् कामक्रोधादींश्च विनियन्ते न नियमयन्ति। 'कर्तृस्थे चाशरीरे कर्मणि' इत्यात्मने-