भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 186, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 186
किरातार्जुनीयम्[ तृतीयः

सारार्थः— व्यासयुधिष्ठिरयोरुपवेशनानन्तरं शारदीयपूर्णचन्द्रकिरणनिकरमिव किरणं धारयन्। यथा विद्युत्वान् मेघो भवति तथा स्वयं कृष्णवर्णः पीतवर्णं जटाजूटं बिभ्राणो व्यासो युधिष्ठिरेण सादरं पृष्ट इति ॥ १ ॥

भाषार्थः— बैठने के बाद शरद् ऋतु की किरणों जैसे मनोहर और ऊपर फैलते हुए किरण-पुञ्जों से एक उच्च बेर के जैसे बैठे और खुद श्यामवर्ण, पीले रंग की जटाओं को धारण किये हुये जैसे बिजुली से शोभित बादल हो, वैसे बैठे व्यासजी से महाराज युधिष्ठिर बोले ॥ १ ॥

प्रसादलक्ष्मीं दधतं समग्रां वपुःप्रकर्षेण जनातिगेन।
प्रसह्य चेतःसु समासजन्तमसंस्तुतानामपि भावमार्द्रम् ॥ २ ॥

प्रसादेति ॥ पुनः समग्रां सम्पूर्णां प्रसादः सौम्यता तस्य लक्ष्मीं सम्पदं दधतम्। अत एव जनमतिगच्छतीति जनातिगेन लोकातिशायिना। 'अन्येष्वपि दृश्यते' इति डप्रत्ययः। वपुःप्रकर्षेणाकारसम्पदाऽसंस्तुतानामपरिचितानामपि। व्यासो ऽयमित्य-जानतामपीत्यर्थः। 'संस्तवः स्यात्परिचयः' इत्यमरः। चेतःसु चित्तेष्वाद्रं स्नेहार्द्रं भावमभिप्रायं प्रसह्य बलात्समासजन्तम्। लगयन्तमिति यावत्। 'दंशरञ्जस्वञ्जां शपि इत्युपधाया लोपः। प्रसन्नाकारेषु सर्वोऽपि स्निह्यतीति भावः ॥ २ ॥

अन्वयः— समग्रां प्रसादलक्ष्मीं दधतं, जनातिगेन वपुःप्रकर्षेण, असंस्तुतानाम्, अपि चेतःसु आर्द्रंभावं प्रसह्य समासजन्तम् ( व्यासं युधिष्ठिरम् आवभाषे ) इति चतुर्थश्लोकेन सङ्गतिः ॥ २ ॥

व्याख्या— समग्रां = सकलाम् ; प्रसादलक्ष्मीं = सौम्यत्वशोभां, दधतं = दधानं, जनातिगेन=लोकातिगेन, वपुःप्रकर्षेण=शरीरोत्कर्षेण, असंस्तुतानाम् = अपरिचिता-नाम्, अपि, जनानामिति शेषः, चेतःसु, = मनःसु, आर्द्रं = प्रेमरसपूर्णम् , भावम्=अभिप्रायम्, प्रसह्य = बलात्, समासजन्तं = योजयन्तं, तं व्यासं युधिष्ठिर उवा-चेति शेषः। अर्थात् परिचितं जनं दृष्ट्वा साधारणस्य स्नेहार्द्रो भावः उत्पद्यते, अपरिचितं विलोक्य यावदालापो न भवति तावन्मिथः सम्पुटितमिव मुखं, कीलि-तमिव मनः, उदासीने नयने, एवं भवति, परन्तु, इदं सामान्यस्य लक्षणम्। परिचितमपि जनमपरिचितवदौदासीन्यं दर्शयतीति, अधमस्य लक्षणम्! तथा-ऽपरिचितमपि जनमालोक्याकारणं मनः प्रेमपूर्णं परिचितवद् यस्य भवति, तदु-दारचरितस्य लक्ष्म, यद् व्यासस्योचितमेवेति किं चित्रम् ? ॥ २ ॥

समासः— प्रसादस्य लक्ष्मीः प्रसादलक्ष्मीस्तां प्रसादलक्ष्मीम् ! वपुषः प्रकर्षः वपुःप्रकर्षस्तेन वपुःप्रकर्षेण। अति गच्छतीति अतिगः, जनेभ्योऽतिगः जनातिग-स्तेन जनातिगेन, न संस्तुता असंस्तुतास्तेषामसंस्तुतानाम् ॥ २ ॥