भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 202, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 202
१८किरातार्जुनीयम्[ तृतीयः

भासीदित्यर्थः। विद्यमानस्यापि सुजनस्य चन्दनदारुण इव गुणाः परिभव इव प्रचुरीभवन्तीति भावः ॥ १६ ॥

अन्वयः—शमैकवृत्तेः भवतः, छलेन, आत्मनीनं, विध्वंसं, विधाय, प्रकाशितत्वन्मतिशीलसाराः ते, विद्धिषः, कृतोपकाराः, इव ( सन्ति ) ॥ १६ ॥

व्याख्याशमैकवृत्तेः = शान्तिप्रधानव्यवहारस्य, भवतः = तव, युधिष्ठिरस्येत्यर्थः। छलेन=कपटोन। अनात्मनीनं = स्वनिष्ठकरं, विध्वंसं=सर्वहानिं, विधाय = कृत्वा, प्रकाशितत्वन्मतिशीलसाराः = प्रकटितभवद्बुद्धिविप्रकृतिप्रकर्षाः, ते = तव, युधिष्ठिरस्येत्यर्थः। विद्धिषः = शत्रवः, कृतोपकाराः=विहितसाहाय्याः, इव, सन्तीति। अर्थात् मिथो मित्रतायां दुर्जना अप्युपकारिण एव भवन्ति, का कथा सज्जनानाम्, परन्तु मिथो विरोधे जनिते दुर्जनाः, प्रकृतिं प्रकटयन्ति, सज्जना अपि स्वस्वभावं प्रदर्शयन्ति। किन्तु दुर्जनकृतापकारस्य प्रत्यपकारं न कुर्वन्ति तदानीं सज्जनस्य परिचयो यद् दुर्जनकृतापकारानपि क्षमापयित्वा, तत्प्रतीकारं ये न कुर्वन्ति 'ये यदनिष्टमिष्टं वा कुर्वन्ति ते तत् स्वार्थाय, अतश्चेदस्मदीयो रिपवोऽस्माकमनिष्टमाचरन्ति, तदा कुर्वन्तु, तत्फलं त एव प्राप्स्यन्ति, न सद्यस्त्युत्तरं दास्यामः, एवं स्वभाववतां भवतां स्वभावपरिचय एव प्रकाशितो भवद्वैरिणा सर्वत्रेति भावः ॥ १६ ॥

समासः—आत्मने हित आत्मनीनः न आत्मनीन इत्यनात्मनीनः, तमनात्मनीनम्। शम एवैका वृत्तिर्यस्य सः, शमैकवृत्तिस्तस्य शमैकवृत्तेः। मतिश्च शीलञ्च मतिशीले, तव मतिशीले, इति त्वन्मतिशीले त्वन्मतिशीलयोः सारौ, त्वन्मतिशीलसारौ, प्रकाशितौ त्वन्मतिशीलसारौ यैस्ते प्रकाशितत्वन्मतिशीलसाराः। कृतः उपकारो यैस्ते कृतोपकाराः ॥ १६ ॥

व्याकरणम्—विधाय = वि + धा + क्त्वा + ल्यप् ॥ १६ ॥

वाच्यान्तरम्—शमैकवृत्तेर्भवतश्छलेन, अनात्मनीनं विध्वंसं विधाय, प्रकाशितत्वन्मतिशीलसारैस्ते विद्धिड्भिः कृतोपकारैरिव भूयते ॥ १६ ॥

कोषः—'शमथस्तु शमः शान्तिः' इत्यमरः। 'कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे' इत्यमरः। 'बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः' इत्यमरः। 'वृत्तौ तु चरिते शीलम्' इत्यमरः ॥ १६ ॥

सारार्थः—दुर्योधनस्तु शान्तिशीलस्य भवतो या हानिः कृता सा स्वस्यैवानर्थरूपा तस्य। प्रत्युत पदे पदे तेनापकृता अपि भवन्तस्तस्यापकारमकृत्वा विपक्षावपि नीतिनियम एव पालित इत्यतुलं यशस्तत्कारणमेव प्रसृतं जगति। अतस्ते शत्रवो भवतः कृतोपकारा इव लक्ष्यन्ते मयेति युधिष्ठिरं प्रति व्यासोक्तिः ॥ १६ ॥