किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 213, कुल 707 में से
संदर्भ में पढ़ेंसर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् २६
वाच्यान्तरम्—इत्युक्तवान् प्रसेदिवान् सः (व्यासः) व्रज साधय, इति अजात-शत्रोर्वाक्यं प्रमाणयताऽन्तेवसता जिष्णुना विनयेनोपासेदे ॥ २४ ॥'
कोषः—‘प्रसेदिवान् प्रसन्नः स्यादानन्देन समन्वित’ इति कोषः। छात्रान्तेवासिनौ शिष्ये—' इत्यमरः। ‘जिष्णुरिन्द्रेऽर्जुनेऽन्यस्मिन् जयशीले जनेऽपि च’ इति कोषः ॥ २४ ॥
सारार्थः—पूर्वोक्तप्रकारेणोपदिशन्तं व्यासं प्रति युधिष्ठिरस्याज्ञया छात्र इवार्जुनो गतवान् ॥ २४ ॥
भाषार्थः—इस तरह कहते हुए, हँसमुख व्यास के पास ‘जाओ’ उस विद्या को साधो, यह बड़े भाई युधिष्ठिर की बात मानकर अर्जुन विद्यार्थी के समान उपस्थित हुए ॥ २४ ॥
निर्याय विद्याऽथ दिनादिरम्याद्विम्बादिवार्कस्य मुखान्महर्षेः ।
पार्थाननं वह्निकणावदाता दीप्तिः स्फुरत्पद्ममिवाभिपेदे ॥२५॥
निर्यायेति ॥ अथ वह्निकणावदाता स्फुलिङ्गवदुज्ज्वला। देवतासान्निध्यादिति भावः , विद्येन्द्रमन्त्ररूपा। दिनादिरम्यादर्कस्य प्रभातभास्करस्य । बिम्बादिव महर्षेर्व्यासस्य मुखान्निर्याय निर्गत्य । समासेऽनञ्पूर्वे क्त्वो ल्यप् । दीप्तिरर्कदीधितिः । स्फुरद्विकसत्पङ्कजमिव । पार्थाननमर्जुनस्य मुखमभिपेदे प्रविष्टा ॥ २५ ॥
अन्वयः—अथ 'वह्निकणावदाता, (कर्त्री) विद्या, दिनादिरम्यात्, अर्कस्य, बिम्बात्, इव, महर्षेः मुखात्, निर्याय, दीप्तिः, स्फुरत्पद्मम् इव, पार्थाननम् , अभिपेदे ॥ २५ ॥
व्याख्या—अथ = व्याससमीपेऽर्जुनगमनानन्तरं, वह्निकणावदाता = अग्निस्फुलिङ्गधवला, दैवतरत्वादिति शेषः। विद्या=योगविद्या, इन्द्रप्रसन्नकरणमन्त्ररूपेत्यर्थः (कर्त्री) । दिनादिरम्यात् = प्रभातसुन्दरात्, अर्कस्य = सूर्यस्य, बिम्बात् = मण्डलात्, इव, महर्षे = व्यासस्य, मुखात् = वदनात्, निर्याय=निर्गत्य, पार्थाननम् = अर्जुनमुखम, अभिपेदे=प्राप्ता। (यथा) दीप्तिः=सूर्यभाः, स्फुरत्पद्मं = विकसत्कमलकुसुमम्, इव ॥ २५ ॥
समासः—दिनस्यादिः दिनादिस्तस्मिन् दिनादौ रम्यो यस्तस्माद्दिनादिरम्यात् । महांश्चासौऋषिर्महर्षिस्तस्य महर्षेः। पृथायाः कुन्त्या अपत्यं पुमान् पार्थस्तस्य, पार्थस्याननमिति । पार्थाननम् । वह्नेः कणा वह्निकणा इवावदाता धवला या सा वह्निकणावदाता । स्फुरच्च तत्पद्मं स्फुरत्पद्मम् ॥ २५ ॥
व्या०—निर्याय = निर् + या + क्त्वा + ल्यप् अभिपेदे = अभि + पद् + लिट् ।