भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 239, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 239

सर्गः ] घंटेापथ-सुधाव्याख्याद्वयोपेतम् ५५

कोषः—'कोपक्रोधामर्षरोषप्रतिघा रुट्क्रुधौ स्त्रियौ' इत्यमरः। 'रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः'—इत्यमरः। 'दैवं दिष्टं भागधेयं भाग्यं स्त्री नियति-र्विधि' इत्यमरः। 'चिकुरः कुन्तलो बालः कचः केशः शिरोरुहः' इत्यमरः। 'सारो बले स्थिरांशे च' इत्यमरः। 'कञ्चित्कामप्रवेदने'—इत्यमरः ॥ ४७ ॥

सारार्थः—दुःशासनकरग्रहेण दूषितैर्मदीयैः कुन्तलैनिन्दितविक्रमोऽर्जुनः किं त्वमेवासि। यदा त्वमेव तदा तत्कलङ्कप्रक्षालनाय प्रयत्नः कर्तव्यस्त्वयेति ॥ ४७ ॥

भाषार्थः—दुःशासन के क्रोध रूपी धूर से भरे हुए, अनाथ के समान केवल दैव ही नाथ है जिनके, ऐसे मेरे बालों से, घृणित है पराक्रम और बल जिसका ऐसे अर्जुन तुम ही हो क्या ? अगर हो तो उस कलङ्क को पखारो ॥ ४७ ॥

अथाप्युपेक्षणे दोषमाह— स क्षत्रियस्त्राणसहः सतां यस्तत्कार्मुकं कर्मसु यस्य शक्तिः। वहन्द्द्वयीं यद्यफलेऽर्थजाते करोत्यसंस्कारहतामिवोक्तिम् ॥ ४८ ॥

स इति ॥ क्षतात्त्रायत इति क्षत्रं क्षत्रियकुलम्। 'सुपि' इति योगविभागात्क-प्रत्ययः। पृषोदरादित्वात्पूर्वपदस्यान्त्यलोपः। अथवा क्षदिति क्विबन्तोपपदात्क-प्रत्ययः। क्षत्रे जातः क्षत्रियः। 'क्षत्राद्धः' इति घप्रत्ययः। कर्मणे प्रभवतीति कार्मु-कम्। 'कर्मण उकञ्' इत्युकञ्प्रत्ययः। एवं स्थिते वाक्यार्थः कथ्यते यः सतां साधूनाम्। सहत इति सहः। पचाद्यच्। यस्त्राणस्य सहस्त्राणसहो रक्षणक्षमः स एव क्षत्रियशब्दवाच्यः। तथा यस्य कार्मुकस्य कर्मसु रणक्रियासु शक्तिः। अस्तीति शेषः तदेव कार्मुकशब्दवाच्यम्। अत्रैवैतौ शब्दौ मुख्यौ। नान्यत्रेत्यर्थः। एवं स्थिते द्वयीं द्विविधामुक्तिम्। द्वाविमौ क्षत्रियकार्मुकशब्दावित्यर्थः। अफले पूर्वोक्ता-वयवार्थशून्ये अर्थजाते। स्वाभिधेयसामान्यजातिमात्र इत्यर्थः। 'जातं जात्योघ-जन्मसु' इति विश्वः। वहन्वर्तयन्। संस्कारहतामव्युत्पत्तिदूषितामिव करोतीत्यु-त्प्रेक्षा। तस्मात्त्वमस्मद्रक्षणेनोक्तदोषादात्मानं मोचयस्वेत्यर्थः ॥ ४८ ॥

अन्वयः—यः, सतां, त्राणसहः, क्षत्रियः, यस्य, कर्मसु, शक्तिः, तत् (एव) कार्मुकम्, अर्थजाते, अफले, यदि, द्वयीम्, उक्तिं, वहन् (सन्) असंस्कारहताम्, इव, (तां) करोति ॥ ४८ ॥

व्याख्या—यः = कश्चिद्, जन इति शेषः। सतां = सज्जनानां, गोब्राह्मणादीना-मित्यर्थः। त्राणसहः = रक्षणक्षमः भवतीति शेषः। सः = सज्जनरक्षकः, क्षत्रियः उच्यत इति शेषः। तथा चोक्तं कविकुलशिरोमणिना कालिदासेन 'क्षतात्किल त्रायत इत्युदग्रः क्षत्रस्य शब्दो भुवनेषु रूढः' इति। यस्य = धनुषः, कर्मसु = संग्रामकृत्येषु, शक्तिः = विक्रमः, तदेव, कार्मुकं = धनुः। अर्थात्क्षत्रियोऽपि यः साधु-