किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 240, कुल 707 में से
संदर्भ में पढ़ें५६ किरातार्जुनीय [ तृतीयः
संरक्षणसमर्थः स न क्षत्रियः । यस्य कार्मुकस्य रण उपयोगी नहि तत् कार्मुकमपि नेति भावः। अनयोः सार्थकता तदैव, यदा शब्दाविमौ स्वार्थं भजत इतोऽन्यथा 'विद्याधरो यथा मूर्खो जन्मान्धस्तु दिवाकरः । 'लक्ष्मीपतिर्दरिद्रश्चाप्येतन्नाम निरर्थ-कम्' इतिवद्देवेति । अथ, अर्थजाते = अभिप्रायजातौ, अफले = व्यर्थे, सत्यपि, यदि, द्वयीं=द्विधां, क्षत्रिकार्मुकरूपमित्यर्थः। वहन् = धारयन्, जनः असंस्कारहतां = व्याकरणानुशासनवर्जिताम्, उक्तिम् = वाचं, वचनमिति यावद्, इव, करोति । तस्मात्त्वमधुना स्वजातिस्वायुधानि सार्थकानि कुरुष्वेति भावः ॥
समासः—त्राणस्य सहस्त्राणसहः । अर्थानां जातमर्थजातं, तस्मिन्नर्थजाते । न संस्कारोऽसंस्कारः, असंस्कारेण हृता, असंस्कारहता, ताम् असंस्कारहताम्
व्याकरणम्—वहन् = वह् + लट् + शतृ । करोति = कृ + लट् ॥ ४८ ॥
वाच्यान्तरम्—येन सतां त्राणसहेन भूयते, तेन क्षत्रियेण भूयते । यस्य कर्मसु शक्तिस्तेन कार्मुकेन भूयते । अर्थजाते विफलेऽपि यदि द्वयीं वहताऽसंस्कारहतोक्तिः क्रियते ॥ ४८ ॥
कोषः—'मूर्द्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट्'—इत्यमरः । 'त्रातं त्राणं रक्षितमवितं गोपायितं च गुप्तश्च' इत्यमरः । 'धनुश्चापौ धन्व-शरासन-कोदण्ड-कार्मुकम्'—इत्यमरः । 'शक्तिः पराक्रमः प्राण' इत्यमरः । 'जातिर्जातं च सामान्यम्' इत्यमरः । 'व्याहार उक्तिर्लपितं भाषितं वचनं वचः ) इत्यमरः ॥ ४८ ॥
सारार्थः—यः साधुरक्षणदक्षो न, स क्षत्रियशब्देन न व्यवहर्त्तव्यः । येन शत्रुनं हन्यते, न तत् कार्मुकम्, इति ज्ञात्वा स्वजात्यस्त्रे निरर्थके, तयोः सदर्थकरणाय सत्वरं प्रयासस्त्वया कर्त्तव्यः । न चिरमेवं नपुंसकेनेव त्वया स्थातव्यमिति ॥ ४८ ॥
भाषार्थः—जो सज्जनों की रक्षा करने में समर्थ है, वही क्षत्रिय है। जिसकी संग्राम के कामों में शक्ति है, वही धनुष है। इन दोनों के अर्थ-निरर्थ हो जाने पर भी धारण किये हुए लोग, व्याकरण के नियम से विरुद्ध-बात के समान, उन दोनों को व्यर्थ (अर्थशून्य) करते हैं ॥ ४८ ॥
अथ स्वद्गुणा अपि नोज्जीवयेयुरित्याह—
वीतौजसः सन्निधिमात्रशेषा भवत्कृतां भूतिमपेक्षमाणाः ।
समानदुःखा इव नस्त्वदीयाः सरूपतां पार्थ ! गुणा भजन्ते ॥ ४९ ॥
वीतेति ॥ हे पार्थ ! वीतौजसो निष्प्रभाः सन्निधिमात्रशेषाः सत्तामात्रावशिष्टा भवत्कृतां भवता करिष्यमाणाम् । 'आशंसायां भूतवच्च' इति भूतवत्प्रत्ययः । भूतमभ्युदयमपेक्षमाणास्त्वदीया गुणाः समानदुःखाः संमदुःखभाज इव नोऽस्माकं