भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 242, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 242

५८ किरातार्जुनीयम् [ तृतीयः

इति वैजयन्ती । आलूनसटमाच्छिन्नकेसरम् । 'सटा जटाकेसरयोः' इत्यमरः । मृगेन्द्रं सिंहमिव स्थितम् । त्वामियं धूः कार्यभारः । तिग्मरश्मिं सूर्यं दीप्त्या दिनश्रीरिव योग्यतया निर्वाहक तयाऽधिरूढाऽऽरुढवती । कर्तरि क्तः । त्वदधीनेत्यर्थः ॥ ५० ॥

अन्वयः—प्रमादाद्, रिपुभिः, आक्षिप्यमाणं, नागैः, आलूनसटं, मृगेन्द्रम्, इव त्वाम्, इयं, धूः, तिग्मरश्मिं, दीप्त्या, दिनश्रीः, इव, योग्यतया, अधिरूढा ॥ ५० ॥

व्याख्या—प्रमादाद् = अनवधानतया, बुद्धिविभ्रमतयेत्यर्थः । न तु अयोग्यतये- त्यर्थः रिपुभिः = वैरिभिः, आक्षिप्यमाणम् = अधिक्षिष्यमाणम्, अपमानितप्राय- मिति यावत् । प्रमादाद् = भ्रमाद्, नागैः = हस्तिभिः, आलूनसटम् = परिलुञ्चित- केसरम्, मृगेन्द्रं = सिंहम्, इव त्वाम् = भवन्तम्, अर्जुनमित्यर्थः । इयम्=एषा । धूः = भारः । ईदृशशत्रुकृततापनिवृत्त्ये तपःकरणरूपः कार्यभारः इत्यर्थः । तिग्म- रश्मिं = सूर्यं, दीप्त्या = कान्त्या, दिनश्रीः = वासरशोभा, इव, अर्थात्, दिनशोभा यथा दीप्तिमन्तं सूर्यमेवाश्रयति, तथैवायं कार्यभारः, योग्यतमं त्वां प्रत्येति, यथा ज्योतीषां मध्ये सूर्यस्तथैव भ्रातॄणां मध्ये भवानिति निष्कर्षार्थः । योग्यतया = अधिकगुणवतया, अधिरूढा = आरूढवती । न खल्वन्योऽस्माकं दुःखोच्छेदकस्तेन सत्वरं विपदामुन्मूलनायायासः कर्त्तव्यस्त्वयैवेति ॥ ५० ॥

समासः—आ समन्ताद् लूना सटा यस्य स आलूनसटस्तमालूनसटम् । मृगे- ष्विन्द्रो मृगेन्द्रस्तं मृगेन्द्रम् । दिनस्य श्रीर्दिनश्रीः । तिग्मा रश्मयो यस्य स तिग्मरश्मिस्तं तिग्मरश्मिम् ॥ ५० ॥

व्याकरणम्—आक्षिप्यमाणम् = आ + क्षिप् + यक् + कर्मणि लट् + शानच् । अधिरूढा = अधि + रुह् + क्तः + टाप् ॥ ५० ॥

वाच्यान्तरम्—प्रमादात् रिपुभिराक्षिप्यमाणैः नागैरालूनसटो मृगेन्द्र इव त्वम्, अनया धुरा, तिग्मरश्मिर्दिनश्रियेवाधिरूढः ॥ ५० ॥

कोषः—'रिपौ वैरि-सपत्नारि-द्विषद्वेषण-दुर्हृदः' इत्यमरः । 'प्रमादोऽनव- धानता' इत्यमरः । 'मतङ्कजो गजो नागः कुञ्जरो वारणः करी' इत्यमरः । 'छिन्नं छात- लूनं कृत्तं दातं दितं छितं वृक्णम्' इत्यमरः । सटा जटाकेसरयोः' इति विश्वः । 'सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः' इत्यमरः । 'स्युः प्रभारुचिस्त्विग्भा- भाश्छविद्युतिदीप्तयः' इत्यमरः ॥ ५० ॥

सारार्थः—यथाऽसावधानतया सिंहस्य केसराणि नागैश्छिन्नान्याश्चर्यकराणि, तथैव भवता तेजांसि शत्रुभिः क्षीनानि । अस्यां दशायां यथा तेजोवन्तं सूर्यमेव दिनशोभाऽश्रयति, तथाऽस्माकं दुःखनाशोपायो भवतां मध्ये भवन्तमेवाश्रयितु- मिच्छतीति ॥ ५० ॥