किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 257, कुल 707 में से
संदर्भ में पढ़ें॥ श्रीः ॥
किरातार्जुनीयम्
'सुधा' संस्कृत-हिन्दीव्याख्योपेतम्
चतुर्थः सर्गः
ततः स कूजत्कलहंसमेखलां, सपाकसस्याहितपाण्डुतागुणम् ।
उपाससादोपजनं जनप्रियः, प्रियामिवासादितयौवनां भुवम् ॥ १ ॥
शरदिन्दुनिभां शुद्धां शुभ्रवस्त्रैरलङ्कृताम् ।
कलहंसकृतावासां, वरदां शारदां भजे ॥
अन्वयः— ततः जनप्रियः सः कूजत्कलहंसमेखलां सपाकसस्याहितपाण्डुतागुणाम् भुवम् आसादितयौवनां प्रियाम् इव उपजनम् उपाससाद ।
विग्रहः— जनानां प्रियः = जन-प्रियः । कलहंसा मेखला इव, अथवा कलहंसा इव मेखला यस्यास्ताम् = कलहंसमेखलाम्, कूजन्तों कलहंसमेखलामिव = कूजत्कलहंसमेखलाम् । सह पाकेन वर्तन्त इति सपाकानि सस्यानि तैराहितः पाण्डुतागुणो यस्यास्ताम् = सपाकसस्याहितपाण्डुतागुणाम् । आसादितं यौवनं यया ताम् = आसादितयौवनाम् । जनस्य समीपमुपजनम् ।
अर्थः— ततः = प्रस्थानानन्तरम् । जनप्रियः = लोकप्रियः । स = अर्जुनः । कूजत्कलहंसमेखलाम् = कूजद्राजहंसमेखलाम् । सपाकसस्याहितपाण्डुतागुणाम् = पक्वान्नसम्पादितपाण्डुरङ्गयुक्ताम् । भुवम् = भूमिम् । आसादितयौवनाम् = प्राप्तयौवनाम् । प्रियां = प्रेयसीम् । इव । उपजनम् = जनसमीपे, सखीसमक्षं वा । उपाससाद = उपगतवान् । वंशस्थवृत्तम् । अत्रोपमालङ्कारः ।
कोषः— 'कादम्बः कलहंसः स्यात्' इत्यमरः ।
हिन्दी— हिमालय को प्रस्थान के पश्चात् लोकप्रिय अर्जुन कलकूजन करते हुए राजहंस की भाँति ध्वनित मेखलायुक्त, फसलों के परिपाक से गौरवर्ण वाली