भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 258, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 258

२ किरातार्जुनोयम्

भूमि पर पहुँचे, जैसे कि कोई प्रियपुरुष बजती हुई करधनी पहने अपनी प्रेयसी के समक्ष पहुँचा हो ॥ १ ॥

विनम्रशालिप्रसवौघशालिनोरपेतपङ्काः ससरोरुहाम्भसः ।
ननन्द पश्यन्नुपसीम स स्थलीरुपायनीभूतशरद्गुणश्रियः ॥ २ ॥

अन्वयः— सः विनम्रशालिप्रसवौघशालिनीः अपेतपङ्काः ससरोरुहाम्भसः उपायनीभूतशरद्गुणश्रियः उपसीम स्थलीः पश्यन् ननन्द ।

विग्रहः— विनम्राणां शालोनां प्रसवः=विनम्रशालिप्रसवस्तेषामोघैस्तैः। शाल्यन्ते ताः=विनम्रशालिप्रसवौघशालिनीः । अपेतानि पङ्कानि याभिस्ताः=अपेतपङ्काः । सरोरुहैः सहितानि ससरोरुहाणि, अम्भांसि यासु ताः=ससरोरुहाम्भसः । शरदं गुणः=शरद् गुणः, तस्य श्रियस्ताः=शरद्गुणश्रियः । सीम्नः समीपम्=उपसीम ।

अर्थः— सः=अर्जुनः । विनम्रशालिप्रसवौघशालिनीः=अवनतशालिफलस्तोमशोभिनीः । अपेतपङ्काः=निष्पङ्काः । ससरोरुहाम्भसः=सकमलजलाः । उपायनीभूतशरद्गुणश्रियः=उपहारीभूतशरद्गुणसम्पत्तोः । उपसीम=सीम्नः समीपे । स्थलीः=भुवः । पश्यन्=अवलोकयन् । ननन्द=जहर्ष । अत्र परिणामारङ्कारः ।

कोषः— 'स्थलं स्थलो' इत्यमरः । 'अम्भोर्णस्तोयपानीयम्' इत्यमरः ।

हिन्दी— अर्जुन झुके हुए धान की बालियों से युक्त, कीचडरहित, कमल तथा जलयुक्त उपहार रूप में प्राप्त, शरत्कालीन शोभावाली, ग्राम-सीमाओं में स्थित भूभागों को देखते हुए बहुत प्रसन्न हुए ॥ २ ॥


निरीक्ष्यमाणा इव विस्मयाकुलैः पयोभिरुन्मीलितपद्मलोचनैः ।
हृतप्रियादृष्टिविलासविभ्रमा मनोऽस्य जह्रुः शफरोविवृत्तयः ॥ ३ ॥

अन्वयः— विस्मयाकुलैः उन्मीलितपद्मलोचनैः पयोभिः निरीक्ष्यमाणा इव हृतप्रियादृष्टिविलासविभ्रमाः शफरोविवृत्तयः अस्य मनः जह्रुः ।

विग्रहः— विस्मयेनाकुलास्तैः=विस्मयाकुलैः । उन्मीलितानि पद्मानि=उन्मीलितपद्मानि । उन्मीलितपद्मानीव लोचनानि येषां तैः उन्मीलितपद्मलोचनैः । प्रियाणं दृष्टिः=प्रियादृष्टिः । तासां विलासास्तेषां विभ्रमाः, हृताश्चामी प्रियादृष्टिविलासविभ्रमाः=हृतप्रियादृष्टिविलासविभ्रमाः । शफरीणां विवृत्तयः=शफरीविवृत्तयः ।