किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 258, कुल 707 में से
संदर्भ में पढ़ें२ किरातार्जुनोयम्
भूमि पर पहुँचे, जैसे कि कोई प्रियपुरुष बजती हुई करधनी पहने अपनी प्रेयसी के समक्ष पहुँचा हो ॥ १ ॥
विनम्रशालिप्रसवौघशालिनोरपेतपङ्काः ससरोरुहाम्भसः ।
ननन्द पश्यन्नुपसीम स स्थलीरुपायनीभूतशरद्गुणश्रियः ॥ २ ॥
अन्वयः— सः विनम्रशालिप्रसवौघशालिनीः अपेतपङ्काः ससरोरुहाम्भसः उपायनीभूतशरद्गुणश्रियः उपसीम स्थलीः पश्यन् ननन्द ।
विग्रहः— विनम्राणां शालोनां प्रसवः=विनम्रशालिप्रसवस्तेषामोघैस्तैः। शाल्यन्ते ताः=विनम्रशालिप्रसवौघशालिनीः । अपेतानि पङ्कानि याभिस्ताः=अपेतपङ्काः । सरोरुहैः सहितानि ससरोरुहाणि, अम्भांसि यासु ताः=ससरोरुहाम्भसः । शरदं गुणः=शरद् गुणः, तस्य श्रियस्ताः=शरद्गुणश्रियः । सीम्नः समीपम्=उपसीम ।
अर्थः— सः=अर्जुनः । विनम्रशालिप्रसवौघशालिनीः=अवनतशालिफलस्तोमशोभिनीः । अपेतपङ्काः=निष्पङ्काः । ससरोरुहाम्भसः=सकमलजलाः । उपायनीभूतशरद्गुणश्रियः=उपहारीभूतशरद्गुणसम्पत्तोः । उपसीम=सीम्नः समीपे । स्थलीः=भुवः । पश्यन्=अवलोकयन् । ननन्द=जहर्ष । अत्र परिणामारङ्कारः ।
कोषः— 'स्थलं स्थलो' इत्यमरः । 'अम्भोर्णस्तोयपानीयम्' इत्यमरः ।
हिन्दी— अर्जुन झुके हुए धान की बालियों से युक्त, कीचडरहित, कमल तथा जलयुक्त उपहार रूप में प्राप्त, शरत्कालीन शोभावाली, ग्राम-सीमाओं में स्थित भूभागों को देखते हुए बहुत प्रसन्न हुए ॥ २ ॥
निरीक्ष्यमाणा इव विस्मयाकुलैः पयोभिरुन्मीलितपद्मलोचनैः ।
हृतप्रियादृष्टिविलासविभ्रमा मनोऽस्य जह्रुः शफरोविवृत्तयः ॥ ३ ॥
अन्वयः— विस्मयाकुलैः उन्मीलितपद्मलोचनैः पयोभिः निरीक्ष्यमाणा इव हृतप्रियादृष्टिविलासविभ्रमाः शफरोविवृत्तयः अस्य मनः जह्रुः ।
विग्रहः— विस्मयेनाकुलास्तैः=विस्मयाकुलैः । उन्मीलितानि पद्मानि=उन्मीलितपद्मानि । उन्मीलितपद्मानीव लोचनानि येषां तैः उन्मीलितपद्मलोचनैः । प्रियाणं दृष्टिः=प्रियादृष्टिः । तासां विलासास्तेषां विभ्रमाः, हृताश्चामी प्रियादृष्टिविलासविभ्रमाः=हृतप्रियादृष्टिविलासविभ्रमाः । शफरीणां विवृत्तयः=शफरीविवृत्तयः ।