भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 455, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 455

दशमः सर्गः ११७

कृतियोग्यवस्तुनोरुभयोरपि' इति लक्षणात् । सोऽपि चतुर्थेनार्थान्तरन्यासेन स्व-समर्थकेनाङ्गाङ्गिभावेन संकीर्यते ॥ २५ ॥

हिन्दी — मदवाले मयूरोंके शब्द हंसोंके शब्दोंके साथ और कुमुदवन कदम्ब पुष्पोंकी सम्पत्तिके साथ उत्कर्षवाली शोभाको प्राप्त हो गये, क्योंकि ज्यादा गुणवालोंका परस्पर समागम महान् उत्कर्षके लिए होता है ॥ २५ ॥

सरजसमपहाय केतकीनां प्रसवमुपान्तिकनीपरेणुकीर्णम् ।
प्रियमधुरसनानि षट्पदाली मलिनयति स्म विनोलबन्धनानि ॥२६॥

मल्लि०सरजसमिति । प्रियमधुरिष्टमकरन्दा । नात्र कप्समासान्तः । 'पुंलिङ्गोत्तरपदो बहुव्रीहिः' इति केचित् नपुंसकलिङ्गस्यैव 'मधु' शब्दस्योरःप्रभृतिषु पाठात् मकरन्दस्य मद्यस्य माक्षिकस्यापि वाचकः । अर्धर्चादिगणे पाठात्पुंनपुंसकयोर्मधुः ॥ इत्यभिधानात् । षट्पदावली । उपान्तिके यानि नीपानि कदम्बकुसुमानि तेषां रेणुभिः परागैः कीर्णं व्याप्तम् । किंच, स्वतोऽपि सह रजसा सरजसम् । न त्वरजस्कमिति भावः । साकल्येऽव्ययीभावः । 'अवत्तुरे-'त्यादिना निपातः । केतकीनां प्रसवं पुष्पम् । अपहाय । विनोलबन्धनानि मलिनवृन्तानि । असनानि प्रियकपुष्पाणि । मकरन्दभरितानीति भावः । 'सर्जकासनबन्धूकपुष्पप्रियकजीवकाः' इत्यमरः । मलिनयति स्म । यथा वृन्तादन्यत्रापि मालिन्यं स्यात्तथा मधुलोभाच्छादयामासेत्यर्थः । न हि मध्वासक्तो मधुलाभेऽसति विभूतिष्वासजतीति भावः ॥२६॥

हिन्दी — पुष्परसको पसन्द करनेवाली भ्रमरपङ्क्ति निकट स्थित कदम्ब-पुष्पोंके परागोंसे व्याप्त और स्वतः परागसे युक्त केतकीके पुष्पको छोड़कर मलिन वृन्तवाले प्रियक पुष्पोंको मलिन कर देती थी (पुष्परसके लोभसे आच्छादित कर देती थी) ॥ २६ ॥

मुकुलितमतिशय्य बन्धुजीवं धूतजलबिन्दुपु शाद्वलस्थलेषु ।
अविरलवपुषः सुरेन्द्रगोपा विकचपलाशचयश्रियं समीयुः ॥ २७ ॥

मल्लि०मुकुलितमिति । धूता जलबिन्दवो यासु तासु शाद्वलस्थलीषु शाद-हरितप्रदेशेषु । अविरलवपुषः स्थूलमूर्तयः सुरेन्द्रगोपाः कीटविशेषा मुकुलीकृतं बन्धुजीवम् । बन्धुजीवकमुकुलमित्यर्थः । 'बन्धूको बन्धुजीवकः' इत्यमरः । अतिशय्यातिक्रम्य विकचपलाशचयो विकसितकिंशुकराशिः । 'पलाशे किंशुकः पर्णः' इत्यमरः । तस्य श्रियम् । तत्सदृशीं श्रियमित्यर्थः । अत एव निदर्शनालङ्कारः । समीयुः प्रापुः ॥ २७ ॥

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित) · पृष्ठ 455, कुल 707 में से · BharatKosha