किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 673, कुल 707 में से
संदर्भ में पढ़ेंअष्टादशः सर्गः ४१७
त्वं कारणानि भूतानि, तेषां कारणानि भूतसूक्ष्माणि परमाणवो वा तेषां कारण- कारणानां कारणं प्रकृत्यादिद्वारोत्पत्तिस्थानम्। अत्र सर्वत्र 'यतो वा इमानि भूतानि जायन्ते। येन जातानि जीवन्ति। यत् प्रयन्त्यभिसंविशन्ति' इति श्रुतिः प्रमाणमिति भावः ॥ ३५ ॥
हिन्दी—हे भगवन्! आप स्थावर (अचर) और जङ्गम (चर) प्राणियों- के संहारक हैं। आपसे समस्त लोक प्राणधारण करता है। आप योगियोंके प्रवर्तक कर्म और उनके भोगका निवारण करते हैं, अर्थात् उनके बन्धको छुड़ाते हैं। आप पञ्चमहाभूत और उनके कारण भूतसूक्ष्म (शब्द स्पर्शा) आदिके कारण हैं ॥ ३५ ॥
रक्षोभिः सुरमनुजैर्दितेः सुतैर्वा यल्लोकेष्वविकलमाप्तमाधिपत्यम्।
पाविन्याः शरणागतातिहारिणे तन्माहात्म्यं भव भवते नमस्क्रियायाः॥
मल्लि०—रक्षोभिरिति । रक्षोभी राक्षसैः सुरमनुजै. सुराश्च मनुजाश्च तैर्देवमनुष्यैर्दितेः सुतैर्दैत्यैर्वा लोकेषु यदविकलं संपूर्णमाधिपत्यमाप्तं प्राप्तं, तत् हे भव ! शरणागतानामार्तिहारिणे दुःखनाशकाय भवते तुभ्यं नमस्क्रियायाः । 'नमःस्वस्ती-'त्यादिना चतुर्थी । पाविन्याः पापहारिण्या माहात्म्यं सामर्थ्यम् । 'न कश्चाप्युन्नतस्ते भवति शिरसस्त्वय्यवनतिः' इति भावः । प्रहर्षिणीवृत्तम् ॥ ३६॥
हिन्दी—हे भव (शिवजी)! राक्षस, देवता, मनुष्य अथवा दैत्य इन सभीने लोकमें जो सम्पूर्ण आधिपत्य पा लिया वह शरणागतोंके दुःखनाशक आपको किये गये पापनाशक नमस्कार कर्मका सामर्थ्य है ॥ ३६ ॥
अथाष्टमूर्तिषु काश्चित्स्तुवन् वायुमूर्ति तावदाह—
तरसा भुवनानि यो बिभर्ति ध्वनति ब्रह्म यतः परं पवित्रम्।
परितो दुरितानि यः पुनीते शिव तस्मै पवनात्मने नमस्ते ॥ ३७ ॥
मल्लि०—तरसेति । यः पवनः । तरसा बलेन । 'तरसी बलरंहसी' इति विश्वः । भुवनानि बिभर्ति प्राणात्मना धारयति । यतो यत्प्रेरणात् पवित्रं परं परमं ब्रह्म वर्णात्मकं ध्वनति नदति । 'सोदीर्णो मूर्धन्यभिहतो वक्त्रमापद्य मारुतः । वर्णाञ्जनयते' इति वचनात् । यः पवनः परितो दुरितानि पातकानि पुनीते शोधयति । नाशयतीति यावत् । हे शिव ! तस्मै पावयतीति पवनो वायुः स एवात्मा यस्य तस्मै पवनात्मने ते तुभ्यं नमः । वृत्तमुक्तम् ॥ ३७ ॥
२७ कि०