भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 79, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 79

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ४९

कलम्बमार्गणशराः पत्री रोप इषुद्वयोः' इत्यमरः। 'अथ निशितक्ष्णुतशातानि तेजित' इत्यमरः॥३०॥

सारार्थः-ये जनाः कपटयुक्तेष्वपि कपटं न कुर्वन्ति, प्रत्युत सारल्यमेव प्रकाशयन्ति, ते नियतं त्वरितमेव विनश्यन्ति; यथा अनावृतशरीरा वीराः कपटयुद्धकरैर्वीरैस्तीक्ष्णबाणैर्हन्यन्ते तथैवेति। अतो मायाविषु मायिभिर्भवितव्यम्। अन्यथा प्राणपातशङ्का भवति। अत एव भगवद्वाक्यम्— 'ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्'। 'शठे शाठ्यम् समाचरेत्' इति नीतिरपि तन्मतमनुसरति ॥३०॥

भाषार्थः-जो कोई ठग (धूर्त-बदमाश) के प्रति धूर्त नहीं बनता, वह भारी दुःख को भोगता है। इसलिए कि शैतान लोग वैसे ही सीधे आदमी के सब बाहर भीतर का हाल समझ कर चौपट करते हैं, जैसे चोखे बाण नंगे बदन वाले योद्धा के भीतर घुस कर मारते हैं ॥३०॥

न च लक्ष्मीचाञ्चल्यादयमनर्थागमः, किन्तु स्वोपेक्षादोषमूलत्वादित्याशयेनाह—

गुणानुरक्तामनुरक्तसाधनः कुलाभिमानी कुलजां नराधिपः।
परैस्त्वदन्यः क इवापहारयेन्मनोरमामात्मवधूमिव श्रियम् ॥३१॥

गुणेति। अनुरक्तसाधनोऽनुकूलसहायवान्। उक्तं च कामन्दकीये- 'उद्योगादनिवृत्तस्य ससहायस्य धीमतः। छायेवानुगता तस्य नित्यं श्रीः सहचारिणी ॥' इति। कुलाभिमानी क्षत्रियत्वाभिमानी कुलीनत्वाभिमानी च त्वदन्यस्त्वत्तोऽन्यः। 'अन्या रात 'इत्यादिना पञ्चमी। क इव नराधिपो गुणैः सन्ध्यादिभिः सौन्दर्यादिभिश्चानुरक्तामनुरागिणीं कुलजां कुलक्रमादागतां कुलीनां च मनोरमां श्रियमात्मवधूमिव स्वभार्यामिव 'वधूर्जाया स्नुषा स्त्री च' इत्यमरः। परैः शत्रुभिरन्यैश्चापहारयेत्। स्वयमेवापहारं कारयेदित्यर्थः। कलत्रापहारवल्लक्ष्म्य पहारोऽपि राज्ञां मानहानिकरत्वादनुपेक्षणीय इति भावः॥३१॥

अन्वयः- अनुरक्तसाधनः, कुलाभिमानी, नराधिपः, त्वदन्यः, कः, इव, गुणानुरक्तां, कुलजां, मनोरमाम्, आत्मवधूम्, इव, श्रियम्, परैः, अपहारयेत् ॥३१॥

सुधा- अनुरक्तसाधनः = अनुकूलसहायकः, कुलाभिमानी = निजवंशमर्यादा रक्षणशीलः, नराधिपः=नरपतिः, राजा इत्यर्थः। त्वदन्यः = त्वत्तोऽन्यः, कः इव, (भवेत्) यः, 'गुणानुरक्ताम् = गुणैः सन्ध्यादिभिरनुरागवतीम्, वा गुणैः=सौन्दर्यादिभिरनुरागिणीम्, कुलजाम् = वंशक्रमागतम्, वा कुलीनां, श्रियम् = लक्ष्मीम्,