किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 84, कुल 707 में से
संदर्भ में पढ़ें५४ किरातार्जुनीयम् [प्रथमः
अन्वयः- लोहिचन्दनोचितः, महारथाः अयं, वृकोदरः रेणुरूषितः, पदातिः,(सन्) अन्तर्गिरि, परिभ्रमन्, सत्यधनस्य (तव), मानस, कच्चित्, नो, दुनोति।
सुधा- लोहितचन्दनोचितः=रक्तचन्दनचर्चितः, महारथः=अतिरथः, यः प्रागासीदिति शेषः। सोऽधुना, अयं=पुरःस्थः, वृकोदरः=शोकजठरः, भीम इत्यर्थः। रेणुरूषितः = धूलिधूसरितः, पदातिः=चरणचारी, अन्तर्गिरि=पर्वतगुहान्तरे परिभ्रमन् =पर्यटन्, सत्यधनस्य=सर्वसत्यात्मकस्य तवेत्यर्थः। मानसं=मनः, कच्चित्=किम्, नो=नहि, दुनोति=परितापयति, अवश्यमयं परितापयोग्यो विषयः। तथाऽपि ते चित्तं निश्चिन्तमिव-लक्ष्यते, अतो भवन्मनः कठोरतममिति ॥३४॥
समासः- लोहितञ्च चन्दनं लोहितचन्दनम्, तेनोचित इति लोहित, चन्दनोचितः। पादाभ्यामवतीति पदातिः। रेणुभि रूषितः रेणुरूषितः। गिरिषु अन्तः इत्वन्तर्गिरि। महान् रथो यस्य स महारथः। वृकस्योदरमिवोदरं विद्यते यस्य सःवृकोदरः। सत्यमेव धनं यस्य सः सत्यधनस्तस्य सत्यधनस्य ॥३४॥
व्याकरणम्- परिभ्रमन्=परि+भ्रमु+लट्+शत्ृ । दुनोति=दूञ्+लट् ॥३४॥
वाच्यान्तरम्- लोहितचन्दनोचितेन महारथेन, पदातिना रेणुरूषितेन अन्तर्गिरि परिभ्रमता अनेन वृकोदरेण सत्यधनस्य तव मानसं कच्चित् नो दूयते ॥३४॥
कोषः- 'लोहितो रोहितो रक्तः' इत्यमरः। 'पाटीरश्चन्दनोऽस्त्री च गन्धसार' इति कोषः। रेणुर्द्वयोः स्त्रियां धूलिः पांशुर्ना न द्वयो रजः' इत्यमरः। 'गुण्ठितरूषिते' इत्यमरः। 'चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः। 'वातप्रमीर्वातमृगः' कोकस्त्वीहामृगो वृकः इत्यमरः। पिचण्डकुक्षी जठरोदरं तुन्दम्' इत्यमरः। ३४॥
सारार्थः- जो भीमसेनो राजकुमारः पूर्वं नित्यं रक्तचन्दनयर्चिताङ्गो रथचारी आसीत, स चाधुना धूलिधूसरिताङ्गः पर्वतोपरि पादचारी भवन् भ्रमति तं तथारूपं विलोक्य भवतो मनसि किं खेदो न जायते। अहह महतः कष्टस्यावसरोऽयम् ॥३४॥
भाषाऽर्थः- जो राजकुमार भीमसेन पहले लाल चन्दन शरीर में लगाते थे, उसी शरीर में अब धूलि लगती है। जो पहले रथपर चलते थे, वे अब पर्वत पर पैदल घूमते हैं, हाय! ऐसे सहोदर भाई को देखकर भी क्या आपका हृदय दुखता नहीं?॥३४॥
विजित्य यः प्राज्यमयच्छदुत्तरान्कुरूनकुप्यं वसु वासवोपमः। स वल्कवासांसि तवाधुनाऽऽहरन् करोति मन्युं न कथं धनञ्जयः ॥३५॥