मनुस्मृति (कुल्लूकभट्ट टीका व हिन्दी अनुवाद सहित)
Manusmriti with Kulluka Bhatta Tika & Hindi Translation
महर्षि मनु द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 409, कुल 649 में से
संदर्भ में पढ़ेंआठवां अध्याय । २६६ त्रसरेणवोऽष्टौ विज्ञेया लिक्षैका परिमाणतः । ता राजसर्षपस्तिस्रस्ते त्रयो गौरसर्षपः ॥ १३३ ॥ सर्षपाः षड्यवो मध्यस्त्रियवं त्वेककृष्णलम् । पञ्चकृष्णलको माषस्ते सुवर्णस्तु षोडश ॥ १३४ ॥ पलं सुवर्णाश्चत्वारः पलानि धरणं दश । द्वे कृष्णले समधृते विज्ञेयो रौप्यमाषकः ॥ १३५ ॥ ते षोडश स्याद्धरणं पुराणश्चैव राजतः । कार्षापणस्तु विज्ञेयस्ताम्रिकः कार्षिकः पणः ॥ १३६ ॥ धरणानि दश ज्ञेयः शतमानस्तु राजतः । चतुःसौवर्णिको निष्को विज्ञेयस्तु प्रमाणतः ॥ १३७ ॥ पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः । मध्यमः पञ्च विज्ञेयः सहस्रं त्वेव चोत्तमः ॥ १३८ ॥ ८ त्रसरेणु = १ लिक्षा । ३ लिक्षा = १ राई । ३ राई = १ सफेद सरसों । ६ सरसों = १ मध्यमयव । ३ मध्यमयव = १ कृष्णल । ५ कृष्णल = १ माष । १६ माष = १ सुवर्ण । ४ सुवर्ण = १ पल । १० पल = १ धरण । २ कृष्णल = १ चांदी का माषा । १६ चांदी माषा = १ धरण, वा चांदी का पुराण । तांबा के कर्ष- भर के पण-पैसा को कार्षापण कहते हैं । १० धरण = १ चांदी का शतमान । ४ सुवर्ण = १ धरण । २५० पण = प्रथम साहस । ( साधारण दण्ड ) ५०० पण = मध्यम साहस । १००० पण = उत्तम साहस ॥ १३३-१३८ ॥ ऋणे देये प्रतिज्ञाते पञ्चकं शतमर्हति ।